राष्ट्रीय चिकित्सक दिवसे उपराष्ट्रपतिं लोकसभा अध्यक्षं च समेत्य शीर्ष नेतारश्चिकित्सकेभ्यो अददुः बर्धापनानि
नवदिल्ली, 01 जुलाईमासः (हि.स.)। राष्ट्रियचिकित्सकदिवसस्य अवसरे उपराष्ट्रपतिना लोकसभाध्यक्षेन केन्द्रीयमन्त्रिभिश्च चिकित्सकेभ्यः शुभकामनाः राष्ट्रियचिकित्सकदिवसस्य अवसरे उपराष्ट्रपतिः सीपी राधाकृष्णनः लोकसभाध्यक्षः ओम बिरला केन्द्रीयमन्त्रिणः च
राष्ट्रीय चिकित्सक दिवस (प्रतिकात्मक चित्र)।


नवदिल्ली, 01 जुलाईमासः (हि.स.)।

राष्ट्रियचिकित्सकदिवसस्य अवसरे उपराष्ट्रपतिना लोकसभाध्यक्षेन केन्द्रीयमन्त्रिभिश्च चिकित्सकेभ्यः शुभकामनाः

राष्ट्रियचिकित्सकदिवसस्य अवसरे उपराष्ट्रपतिः सीपी राधाकृष्णनः लोकसभाध्यक्षः ओम बिरला केन्द्रीयमन्त्रिणः च सहिताः देशस्य शीर्षनेतारः चिकित्सकेभ्यः शुभकामनाः प्रेषितवन्तः। अस्मिन् अवसरे सर्वे चिकित्सकानां कार्याणि प्रशंसितवन्तः।

उपराष्ट्रपतिः सीपी राधाकृष्णनः राष्ट्रीयचिकित्सकदिवसस्य अवसरे बुधवासरे एक्स माध्यमे प्रकाशितसन्देशे उक्तवान् यत् दयया कौशलेन दृढप्रतिबद्धतया च मानवतायाः सेवां कुर्वद्भ्यः समस्तेभ्यः समर्पितचिकित्सकेभ्यः मम हार्दिकाः शुभकामनाः। तेन उक्तं यत् गतवर्षेषु भारतेन स्वास्थ्यसेवाक्षेत्रे उल्लेखनीयः विकासः साधितः। कोविड १९ महामारीकाले विश्वस्य बृहत्तमः टीकाकरणाभियानः आयुष्मानभारत इत्यादीनां योजनानां माध्यमेन सुलभस्वास्थ्यसेवायाः विस्तारः देशव्यापिनः स्वास्थ्याधारसंरचनायाः सुदृढीकरणम् डिजिटल स्वास्थ्यसेवायाः शीघ्रस्वीकारश्च एते सर्वे उत्तमस्वास्थ्यस्य दिशि अस्माकं सामूहिकयात्रायाः मीलपत्थररूपेण प्रतिष्ठिताः।

उपराष्ट्रपतिना उक्तं यत् संकटसमये जनानां प्राणरक्षणात् आरभ्य अनुसन्धानेन नवोन्मेषेण च चिकित्साविज्ञानस्य उन्नयनपर्यन्तं अस्माकं चिकित्सकानां निरन्तरसेवा या प्रायः अत्यन्तकठिनपरिस्थितिषु अपि क्रियते सा कर्तव्यस्य त्यागस्य करुणायाश्च परमादर्शान् प्रतिपादयति। राष्ट्रनिर्माणे चिकित्साजगतः अमूल्ययोगदानाय तेषां प्रति कृतज्ञतां प्रकट्य जनसेवायाम् प्राणरक्षणकार्ये च निरन्तरं शक्तिं सफलतां च कामितवान्।

लोकसभाध्यक्षः ओम बिरला उक्तवान् यत् स्वस्थसमाजस्य सशक्तराष्ट्रस्य च निर्माणे चिकित्सकानां भूमिका सदा केन्द्रीय प्रेरणादायिनी च अस्ति। अद्य राष्ट्रीयचिकित्सकदिवसस्य अवसरे देशव्यापिनः समस्तेभ्यः चिकित्सकेभ्यः हार्दिकाः शुभकामनाः तेषां समर्पणस्य सेवाभावस्य मानवतायाः प्रति अटूटप्रतिबद्धतायाश्च अभिनन्दनं करोमि।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमित शाह समस्तेभ्यः चिकित्सकेभ्यः शुभकामनाः प्रदाय उक्तवान् यत् उत्तमस्वास्थ्यस्य संवर्धने रोगोपचारे स्वस्थजीवनशैल्याः विषये जनजागरणे च चिकित्सकानां समर्पणं प्रतिबद्धता च सुदृढस्य स्वस्थसमाजस्य आधारं निर्माति। अयं दिवसः समाजसेवायां भवतां प्रतिबद्धतां अधिकां दृढां करोतु इति मम कामना।

रक्षामन्त्री राजनाथ सिंह राष्ट्रीयचिकित्सकदिवसस्य अवसरे समस्तचिकित्सकेभ्यः कृतज्ञतां प्रकट्य उक्तवान् यत् चिकित्सकाः अचलसमर्पणेन करुणया साहसेन च मानवतायाः सेवां कुर्वन्ति। ते अत्यावश्यकसमये परिवारेभ्यः आशां समाजाय च बलं प्रयच्छन्ति। तेषां निःस्वार्थसेवा अमूल्ययोगदानं च सर्वेषां प्रेरणास्रोतः अस्ति।

केन्द्रीयमार्गपरिवहनमन्त्री नितिन गडकरी चिकित्सकदिवसस्य अवसरे भारतरत्न डा बिधानचन्द्रराय महोदयाय श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् तस्य जीवनं चिकित्साक्षेत्रे करुणायाः सेवायाः उत्कृष्टतायाश्च प्रतीकं आसीत्। स्वास्थ्यसेवायां चिकित्साशिक्षायां राष्ट्रनिर्माणे च तस्य अमूल्ययोगदानं भाविपीढीः निरन्तरं प्रेरयिष्यति। जीवनरक्षणे अटूटसमर्पणाय समस्तेभ्यः चिकित्सकेभ्यः अपि कृतज्ञता व्यक्तिता।

कृषिमन्त्री शिवराजसिंहचौहानः चिकित्सकेभ्यः शुभकामनाः प्रदाय उक्तवान् यत् स्वस्थसमाजस्य निर्माणे भवतां भूमिका अत्यन्तमहत्त्वपूर्णा अभिनन्दनीया च अस्ति। भवद्भिः एतत् ईश्वरीयं चिकित्सासेवाकार्यं सदा अटूटसेवाभावेन समर्पणेन च क्रियताम् इति मम शुभकामना।

काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खरगे उक्तवान् यत् रक्षितस्य प्रत्येकस्य जीवनस्य पृष्ठे चिकित्सकस्य करुणा कौशलं कर्तव्यनिष्ठा च विद्यमाना भवति। राष्ट्रीयचिकित्सकदिवसस्य अवसरे चिकित्सकेभ्यः सम्पूर्णस्वास्थ्यसेवासमुदायाय च यस्मिन् परिचारिकाः एएनएम कार्यकर्तारः आशाकार्यकर्तारः आङ्गनवाडीकार्यकर्तारः अन्ये सर्वे अग्रपङ्क्तिस्वास्थ्यकर्मिणः च अन्तर्भवन्ति तेभ्यः हार्दिकं कृतज्ञतां प्रकटितवान्। एषां निःस्वार्थसेवया एव राष्ट्रं स्वस्थं सुदृढं च भवति। सः भारतरत्न डा बिधानचन्द्रराय महोदयाय श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् सः प्रख्यातः चिकित्सकः स्वतन्त्रतासेनानी शिक्षाविद् दूरदर्शी राजनेता च आसीत् यस्य गौरवमयी परम्परा अद्यापि भाविपीढीः प्रेरयति।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् सेवाम् आत्मजीवनस्य परमलक्ष्यं मन्यमानाः मानवतारक्षणाय समर्पिताः समस्ते चिकित्सकबान्धवाः राष्ट्रीयचिकित्सकदिवसस्य हार्दिकाः शुभकामनाः स्वीकुर्वन्तु। चिकित्सकाः स्वस्थस्य सशक्तस्य समाजस्य आधारशिला सन्ति। जनसेवायां पूर्णसमर्पणेन संवेदनशीलतया ऊर्जया च कार्यं कुर्वन्तु।

मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादव उक्तवान् यत् चिकित्सकानां समर्पणं सेवा संवेदनशीलता च असंख्यपरिवाराणां कृते आशायाः विश्वासस्य नवजीवनस्य च आधारः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani