Enter your Email Address to subscribe to our newsletters

नवदेहली, ०१ जुलाईमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.-राधाकृष्णनः, प्रधानमन्त्री नरेन्द्र-मोदी, लोकसभाध्यक्षः ओम्-बिडला च सहिताः अनेकाः प्रमुख-नेतारः पूर्व-उपराष्ट्रपतये एम्.-वेङ्कय्या-नायडु-महोदयाय जन्मदिवसस्य शुभाशंसाः प्रदत्तवन्तः। तैः तस्य दीर्घायुः, उत्तम-स्वास्थ्यं राष्ट्रसेवायां च तस्य महत्त्वपूर्ण-योगदानस्य प्रशंसा कृता।
उपराष्ट्रपतिः सी.पी.-राधाकृष्णनः वेङ्कय्या-नायडु-महोदयं प्रतिष्ठितं दूरदर्शिनं च राजनेतारम् इति वर्णितवान्। सः अवदत् यत् राष्ट्रनिर्माणाय तस्य अटला प्रतिबद्धता, संसदीय-परम्परासु आदरः तथा वञ्चित-जनानां कल्याणाय समर्पणं सर्वेषां प्रेरणास्रोतः अस्ति।
प्रधानमन्त्री नरेन्द्र-मोदी स्वस्य सन्देशे अवदत् यत् वेङ्कय्या-नायडु-महोदयः दीर्घसार्वजनिक-जीवने देशस्य विकासाय दरिद्रजन-सेवायै च समर्पणेन विशिष्टाम् अभिज्ञातिं प्राप्तवान्। सः कृषि-ग्रामीण-विकासयोः तस्य विशेष-योगदानस्य अपि प्रशंसाम् अकरोत्। तेन सह दीर्घकालं कार्यानुभवं स्मरन् प्रधानमन्त्री तस्य स्वस्थं दीर्घं च जीवनम् अकामयत्।
लोकसभाध्यक्षः ओम्-बिडला पूर्व-उपराष्ट्रपतये वेङ्कय्या-नायडु-महोदयाय जन्मदिवसस्य शुभाशंसाः प्रदाय तस्य उत्तम-स्वास्थ्यं, प्रसन्नतां सुदीर्घं च जीवनम् अकामयत्।
केन्द्रीय-गृहमन्त्री सहकारिता-मन्त्री च अमित-शाहः अवदत् यत् जनराजनीत्याः आरभ्य उपराष्ट्रपति-पदं यावत् वेङ्कय्या-नायडु-महोदयः संवैधानिक-मूल्यानां रक्षणे जनहित-विषयाणां च उत्थापने अनुकरणीयम् उदाहरणं प्रस्तुतवान्। सः अपि उक्तवान् यत् युवा-नेतारः तस्य सार्वजनिक-जीवनात् प्रेरणां गृह्णीयुः।
केन्द्रीय-विधि-न्याय-राज्यमन्त्री (स्वतन्त्र-प्रभारः) अर्जुन-राम-मेघवालः तथा वस्त्र-मन्त्री गिरिराज-सिंहः अपि तस्मै जन्मदिवसस्य शुभाशंसाः प्रदाय उत्तम-स्वास्थ्यं दीर्घायुः यशस्वि-जीवनं च अकामयेताम्।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः वेङ्कय्या-नायडु-महोदयाय जन्मदिवसस्य शुभकामनाः प्रदाय भगवत: तिरुपति-बालाजी-चरणयोः तस्य उत्तम-स्वास्थ्याय दीर्घायुषे च प्रार्थनाम् अकरोत्।
राजस्थानस्य मुख्यमन्त्री भजनलाल-शर्मा अवदत् यत् सार्वजनिक-जीवने वेङ्कय्या-नायडु-महोदयस्य सरलता, राष्ट्रसेवायै समर्पणं लोकतान्त्रिक-मूल्येषु च अटला निष्ठा सर्वेषां प्रेरणास्रोतः अस्ति। सः प्रभोः श्रीरामस्य चरणयोः तस्य स्वस्थं दीर्घं सफलं च जीवनम् अकामयत्।
Hindusthan Samachar / Divya Ranjan