आङ्गनबाडी-केन्द्रेषु क्रीडनक-निधेः प्रवेशोत्सवस्य च कार्यक्रमः आयोजितः
जयपुरम्, ०१ जुलाईमासः (हि.स.)। त्रिवर्षात् षड्वर्षपर्यन्तम् आयुवर्गस्य बालकेभ्यः गुणवत्तायुक्तां विद्यालयपूर्व-शिक्षां प्रदातुं महिला-बाल-विकास-विभागस्य आईसीडीएस-निदेशालयेन बुधवासरे, एक-जुलाई-दिनाङ्के, प्रदेशस्य सर्वेषु आङ्गनबाडी-केन्द्रेषु “क्रीडन
आंगनबाड़ी केंद्रों पर खिलौना बैंक व प्रवेशोत्सव कार्यक्रम का आयोजन


जयपुरम्, ०१ जुलाईमासः (हि.स.)। त्रिवर्षात् षड्वर्षपर्यन्तम् आयुवर्गस्य बालकेभ्यः गुणवत्तायुक्तां विद्यालयपूर्व-शिक्षां प्रदातुं महिला-बाल-विकास-विभागस्य आईसीडीएस-निदेशालयेन बुधवासरे, एक-जुलाई-दिनाङ्के, प्रदेशस्य सर्वेषु आङ्गनबाडी-केन्द्रेषु “क्रीडनक-निधिः”, “प्रवेशोत्सवः तथा वृक्षारोपण-कार्यक्रमः” च आयोजितः। अस्यैव क्रमस्य अन्तर्गतं महिला-बाल-विकास-विभागस्य शासन-सचिवा पूनम जयपुरस्थे गौतमनगर-आङ्गनबाडी-केन्द्रे क्रीडनक-निधेः शुभारम्भम् अकरोत्। शासन-सचिवया नवप्रविष्टानां बालकानां तिलकं कारयित्वा स्वागतं कारितम् तथा च तेभ्यः प्रवेश-सामग्री-सञ्चिकाः प्रदत्ताः। सा बालकैः सह क्रीडा-आधारित-क्रिया-कलापेषु सहभागितां कृतवती। तया क्रीडनक-निधये क्रीडनकानि समर्पितानि, बालकैः सह उपविश्य चित्राङ्कनमपि कारितम्। तया बालकेभ्यः चित्राङ्कन-सामग्री, मिष्टान्नानि च वितरितानि, तैः सह आत्मीयः संवादः स्थापितः तथा च तेषाम् उत्साहवर्धनं कृतम्।

शासन-सचिवा पूनम अस्मिन् अवसरे नवप्रविष्ट-बालकानाम् आङ्गनबाडी-केन्द्रे उपस्थितैः अभिभावकैः सहापि संवादम् अकरोत् तथा च बालानाम् उत्तम-भविष्य-निर्माणाय तान् प्रोत्साहितवती। तया आङ्गनबाडी-केन्द्र-परिसरे वृक्षारोपणमपि कृतम्। प्रवेशोत्सवस्य अवसरे शासन-सचिवया नवप्रविष्ट-बालकानां स्वागतं कृत्वा तेभ्यः आनन्ददायकं, सुरक्षितं, क्रीडा-आधारितं च वातावरणं प्रदातव्यमिति विशेषतया प्रतिपादितम्। अस्मिन् अवसरे तत्र उपस्थितया अतिरिक्त-निदेशिका (शिशु) डाॅ. प्रीति-पंवार: अपि बालकेभ्यः क्रीडनकानि प्रदत्तानि तथा वृक्षारोपणमपि कृतम्।

उल्लेखनीयं यत्, अस्य अभियानस्य अन्तर्गतं प्रदेशस्य सर्वेषु आङ्गनबाडी-केन्द्रेषु अद्य “क्रीडनक-निधयः” स्थापिताः। तथैव सर्वेषु आङ्गनबाडी-केन्द्रेषु “प्रवेशोत्सवः” आचरितः, यस्मिन् त्रिवर्षात् षड्वर्षपर्यन्तम् आयुवर्गस्य ये बालकाः अद्यावधि अपञ्जीकृताः आसन्, तेषां आङ्गनबाडी-केन्द्रेषु पञ्जीकरणं कृतम्। अयं कार्यक्रमः सम्पूर्णे प्रदेशे जनप्रतिनिधिभिः, अधिकारिभिः, पञ्चायती-राज-प्रतिनिधिभिः, स्वयंसेवी-संस्थाभिः, अभिभावकैः तथा बालकैः सह आयोजितः। क्रीडनक-दानकर्तृभ्यः विभागस्य पक्षतः “धन्यवाद-पत्रम्” प्रदत्तम्। कार्यक्रमस्य अनन्तरं केन्द्रेषु तेषां समीपवर्तिषु च स्थानेषु वृक्षारोपणमपि सम्पन्नम्।

Hindusthan Samachar / Divya Ranjan