Enter your Email Address to subscribe to our newsletters

शिमला, 01 जुलाईमासः (हि.स.)।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्द्र सिंह सुक्खू जुलाईमासस्य प्रथमदिने परमवीरचक्रेण सम्मानितस्य अमरशहीदस्य वीर अब्दुल हमीद इत्यस्य जयन्त्यां तस्मै श्रद्धापूर्वकं प्रणामम् अकरोत्। तेन उक्तं यत् वीर अब्दुल हमीद अदम्यसाहसस्य अद्वितीयपराक्रमस्य अटुटराष्ट्रनिष्ठायाश्च प्रतीकः आसीत्। तेन स्वस्य अनुपमशौर्येण भारतीयसेनायाः गौरवपूर्णपरम्परां नूतनशिखरं प्रापितवान्। मुख्यमन्त्री उक्तवान् यत् राष्ट्रं तस्य अतुलनीययोगदानस्य प्रति सदा कृतज्ञं भविष्यति।
मुख्यमन्त्री स्वतन्त्रभारतस्य प्रथममतदाता किन्नौरजनपदस्य कल्पानिवासी स्वर्गीयः श्याम सरन नेगी इत्यस्य जयन्त्यामपि तस्मै श्रद्धासुमनः अर्पितवान्। तेन उक्तं यत् नेगिनो जीवनं लोकतन्त्रस्य प्रति जागरूकतायाः कर्तव्यनिष्ठायाः सक्रियनागरिकसहभागितायाश्च प्रेरणादायकम् उदाहरणम् अस्ति। तस्य व्यक्तित्वं लोकतान्त्रिकमूल्येषु समर्पणं च आगामिसंततिः निरन्तरं प्रेरयिष्यति।
राष्ट्रीयचिकित्सकदिवसस्य अवसरे मुख्यमन्त्री सर्वेभ्यः चिकित्सकेभ्यः हार्दिकाः शुभकामनाः प्रदाय मानवसेवायै तेषां समर्पणस्य प्रशंसाम् अकरोत्। तेन उक्तं यत् प्रदेशसरकारः स्वास्थ्यसेवानां अधिकसुदृढीकरणाय सुलभीकरणाय आधुनिकीकरणाय च निरन्तरं कार्यं करोति। अस्यैव दिशि चिकित्सामहाविद्यालयेषु रोबोटिकशल्यचिकित्सायाः एमआरआई सहित अत्याधुनिकचिकित्साप्रौद्योगिकीनां विस्तारः क्रियते यथा प्रदेशवासिभ्यः गुणवत्तायुक्ताः श्रेष्ठाः स्वास्थ्यसुविधाः प्रदातुं शक्येरन्।
---------------
Hindusthan Samachar / Dheeraj Maithani