Enter your Email Address to subscribe to our newsletters

मुंबई, 01 जुलाईमासः (हि.स.)।
देशः प्रतिवर्षं करॉजनजनितेन क्षयेन प्रायः द्वादशलक्षकोटिरूप्यकाणां आर्थिकहानिं वर्धमानमायातं विनिर्माणक्षमतायाः अल्पोपयोगं च इत्यादिभिः आव्हानैः सम्मुखीभवति। एतादृशे सति भारतस्य स्टेनलेस स्टील उद्योगेन केन्द्रसर्वकारस्य समीपे राष्ट्रिय स्टेनलेस स्टील नीति राष्ट्रिय करॉजन प्रतिरोधनीतिः च प्रवर्तयितुं आग्रहः कृतः। एताभ्यां नीतिभ्यां स्वदेशीयविनिर्माणस्य सुदृढीकरणं कच्चामालस्य उपलब्धेः सुरक्षा देशव्यापिनि आधारसंरचनासु करॉजनप्रतिरोधिसामग्रीणां उपयोगस्य प्रोत्साहनं च साधयितुं शक्यते। अयं प्रस्तावः इण्डियन स्टेनलेस स्टील डेवलपमेण्ट एसोसिएशन ग्लोबल स्टेनलेस स्टील एक्सपो इत्येतयोः मध्ये घोषितायाः रणनीतिकसहकार्यव्यवस्थायाः अवसरे मुम्बईनगरे आयोजिते कार्यक्रमे प्रस्तुतः।
अस्मिन् कार्यक्रमे सम्बोधनं कुर्वन् आईएसएसडीए इत्यस्य अध्यक्षः राजामणि कृष्णमूर्ति बुधवासरे अवदत् यत् भारते स्टेनलेस स्टील उत्पादनस्य स्थापितक्षमता प्रायः पञ्चसप्ततिलक्षटनपरिमिता अस्ति किन्तु वर्तमाने तस्याः केवलं षष्टि पञ्चषष्टिप्रतिशतपर्यन्तमेव उपयोगः क्रियते। अपरतः देशीयमागधस्य प्रायः पञ्चविंशति अष्टाविंशतिप्रतिशतभागः अद्यापि आयातेन विशेषतः चीनदेशात् पूर्यते।
राजामणि कृष्णमूर्ति अवदत् यत् स्टेनलेस स्टील क्षेत्रे वैश्विकनेतृत्वं प्राप्तुं भारतस्य उत्पादनक्षमता प्रौद्योगिकीविशेषज्ञता च पर्याप्ता अस्ति किन्तु तदर्थं दृढं नीतिगतसमर्थनम् आवश्यकम्। तेन उक्तं यत् अद्य स्टेनलेस स्टील उद्योगः द्वाभ्यां प्रमुखाभ्याम् आव्हानाभ्यां सम्मुखीभवति सस्तायातेन पृथक् नीत्यभावेन च। स्टेनलेस स्टील अद्यापि सामान्यस्टीलवर्गे एव परिगण्यते यद्यपि अस्य निर्माणप्रक्रिया कच्चामालस्य आवश्यकता उपयोगक्षेत्राणि च पूर्णतया भिन्नानि सन्ति। पृथक् राष्ट्रिय स्टेनलेस स्टील नीति कच्चामालस्य उपलब्धतां सुनिश्चितां करिष्यति निवेशं प्रोत्साहयिष्यति भारतं च मूल्यसंवर्धितस्टेनलेस स्टीलस्य वैश्विककेन्द्ररूपेण स्थापयितुं साहाय्यं करिष्यति।
कृष्णमूर्ति अवदत् यत् भारते प्रतिव्यक्तिः स्टेनलेस स्टील उपभोगः केवलं त्रिदशमलवपञ्च किलोग्रामपरिमितः अस्ति यदा तु वैश्विकमाध्यमं षट् सप्त किलोग्रामपरिमितम् अस्ति। तेन उक्तं यत् यदि भारतं केवलं वैश्विकमाध्यमपर्यन्तं प्राप्नुयात् तर्हि अतिरिक्तत्रिंशत् चत्वारिंशल्लक्षटनपरिमितायाः उत्पादनक्षमतायाः आवश्यकता भविष्यति। केन्द्रसर्वकारेण आधारसंरचना रेलमार्ग नगरीयविकास नवकरणीयऊर्जा विनिर्माणक्षेत्रेषु क्रियमाणेन निवेशेन सह स्टेनलेस स्टील दीर्घकालस्थायिसम्पत्तीनां निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति तथा विशालरूपेण रोजगारनिवेशयोः प्रोत्साहनं करिष्यति।
करॉजनं देशस्य अर्थव्यवस्थायाः मौनभारः इति वर्णयन् कृष्णमूर्ति अवदत् यत् भारतः स्वस्य सकलदेशीयोत्पादनस्य प्रायः चत्वारिप्रतिशतं अर्थात् द्वादशलक्षकोटिरूप्यकाणि प्रतिवर्षं सार्वजनिकाधारसंरचनायां परिवहनक्षेत्रे औद्योगिकसम्पत्तिषु उपयोगितासेवासु च करॉजनकारणेन नष्टानि करोति। तेन उक्तं यत् अस्य हानेः महदंशः निरोद्धुं शक्यते।
विर्गो कम्युनिकेशन्स एण्ड एग्जीबिशन्स प्राइवेट लिमिटेड इत्यस्य प्रबन्धनिदेशिका अनीता रघुनाथ अवदत् यत् आईएसएसडीए जीएसएसई इत्येतयोः एषा सहभागिता उद्योगाय सुदृढं वैश्विकमञ्चं प्रदास्यति। तया उक्तं यत् आईएसएसडीए उद्योगस्य प्रौद्योगिकज्ञानं नेतृत्वं च वहति यदा तु जीएसएसई निर्मातारः उपयोक्तारः प्रौद्योगिकीविशेषज्ञाः नीतिनिर्मातारश्च एकत्र आनयितुं वैश्विकमञ्चं प्रददाति। अस्माकं लक्ष्यं विविधक्षेत्रेषु स्टेनलेस स्टील उपयोगस्य प्रोत्साहनं ज्ञानविनिमयस्य संवर्धनं भारतसहितवैश्विकविपण्येषु उद्योगस्य नूतनावसराणां सृजनं च अस्ति।
जिन्दल स्टेनलेस लिमिटेड इत्यस्य विपणनविक्रयविभागस्य समूहप्रमुखः राजीव गर्ग अवदत् यत् एषा सहभागिता तस्मिन् समये भवति यदा देशीयोद्योगस्य नीतिगतविषयेषु स्वस्य सामूहिकस्वरस्य अधिकसुदृढीकरणस्य आवश्यकता वर्तते। तेन उक्तं यत् भारतम् अद्य विश्वस्य द्वितीयः महान् स्टेनलेस स्टील उपभोक्ता अस्ति किन्तु प्रतिव्यक्त्युपभोगः अद्यापि वैश्विकमाध्यमात् अत्यल्पः अस्ति। अपरतः चीन वियतनाम अन्येभ्यः देशेभ्यश्च वर्धमानाः आयाताः देशीयोद्योगे दबावं जनयन्ति। एषः मञ्चः उद्योगाय अनुचितायातस्य प्रतिकारे कच्चामालस्य सुरक्षायां जीवनचक्राधारिताधारसंरचनायोजनायां सततऔद्योगिकविकासे च इत्यादिषु महत्त्वपूर्णविषयेषु सर्वकारेण सह प्रभावीसंवादं स्थापयितुं साहाय्यं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani