Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, ०१ जुलाईमासः (हि.स.)। गुरुकुल-काङ्गडी-समविश्वविद्यालयस्य अभियांत्रिकी-प्रौद्योगिकी-सङ्कायस्य हरितं पर्यावरणानुकूलं सौन्दर्यपूर्णं च स्वरूपं निर्मातुं महत्त्वपूर्णा प्रयत्न: आरब्ध:। गोविन्द-बल्लभ-पन्त-कृषि-प्रौद्योगिकी-विश्वविद्यालयस्य अन्तर्गतं सञ्चालितस्य कृषि-विज्ञान-केन्द्रस्य धनौरी-शाखायाः युवानः कृषि-वैज्ञानिकाः सङ्काय-परिसरस्य उद्यानस्य वैज्ञानिक-विकासे सौन्दर्यीकरणे च योगदानं दास्यन्ति।
अस्याः पहलायाः उद्देश्यम् तकनीकी-शिक्षया सह प्रकृतेः पर्यावरण-संरक्षणस्य च भावनां प्रोत्साहयितुम् अस्ति। अस्यैव क्रमस्य अन्तर्गतं कृषि-विज्ञान-केन्द्रस्य धनौरी-शाखायाः सस्य-विज्ञान-विभागस्य प्राध्यापकः विनोद-चौधरी तथा उद्यान-विज्ञानस्य वैज्ञानिकी डाॅ.रेनू-सङ्काय-परिसरस्य विस्तृतं निरीक्षणम् अकुरुताम्। अस्मिन् अवसरे सङ्कायाध्यक्षः प्रो. मयङ्क-अग्रवालः उद्यान-विभागस्य प्रभारी डाॅ.धर्मेन्द्र-बालियानः च ताभ्यां सह उपस्थितौ आस्ताम्।
प्रो. विनोद-चौधरी अवदत् यत् परिसरस्य भूमिः प्राकृतिक-वातावरणं च अत्यन्तम् अनुकूलम् अस्ति। वैज्ञानिक-योजनानुसारं विविध-ऋतूनाम् अनुरूपाणि पुष्पाणि, छायाप्रदान-वृक्षाः, औषधीय-पादपाः, शोभाकारिणः पादपाश्च रोपयित्वा परिसरः आकर्षकः पर्यावरण-दृष्ट्या समृद्धश्च कर्तुं शक्यते।
डाॅ. रेनू भवनानाम् अन्तर्भागेष्वपि अन्तःस्थ-पादपानां रोपणस्य विचारम् अददात्। तेन वातावरणम् अधिकं शान्तं स्वच्छं ऊर्जायुक्तं च भविष्यति, कार्यक्षमतायां सकारात्मकतायां च वृद्धिर्भविष्यति।
डाॅ. धर्मेन्द्र-बालियानः अवदत् यत् अस्मिन् सङ्काये देशस्य द्वाविंशति-राज्येभ्यः विद्यार्थिनः तकनीकी-शिक्षां प्राप्तुम् आगच्छन्ति। वैज्ञानिकानां मार्गदर्शनेन चरणबद्ध-रीत्या वृक्षारोपणं, पुष्प-वाटिकानां, औषधीय-पादपानां, शोभाकारि-हरित-क्षेत्राणां च विकासः करिष्यते।
निरीक्षण-कार्यक्रमे प्रो.विपुल-शर्मा, सहायक-कुलसचिवः डाॅ.पङ्कज-कौशिकः, डाॅ.मयङ्क-पोखरियालः, डाॅ.संजय-सिंहः, उमाशङ्कर-शर्मा, दलजीत-सिंह-बिष्टः इत्यादयः अनेके अध्यापकाः कर्मचारीणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan