इंद्रप्रस्थ विकास पार्टीदलस्य भाजपादले विलयः, मुकेश गोयलं समेत्य 15 सदस्याः सम्मिलिताः
नवदिल्ली, 10 जुलाईमासः (हि.स.)।दिल्लीराजनीतौ महत् परिवर्तनम् अभवत्। शुक्रवासरे इन्द्रप्रस्थविकासपार्ट्याः संयोजकेन मुकेश गोयलेन सह दलस्य पञ्चदश सदस्याः भारतीयजनतापार्टी भाजपायां सम्मिलिताः। मुख्यमन्त्री रेखा गुप्ता दिल्लीभाजपाध्यक्षः हर्ष मल्होत्रा
दिल्ली की मुख्यमंत्री रेखा गुप्ता, प्रदेश अध्यक्ष हर्ष मल्होत्रा के साथ इंद्रप्रस्थ विकास पार्टी के पार्षद भाजपा में शामिल।


नवदिल्ली, 10 जुलाईमासः (हि.स.)।दिल्लीराजनीतौ महत् परिवर्तनम् अभवत्। शुक्रवासरे इन्द्रप्रस्थविकासपार्ट्याः संयोजकेन मुकेश गोयलेन सह दलस्य पञ्चदश सदस्याः भारतीयजनतापार्टी भाजपायां सम्मिलिताः। मुख्यमन्त्री रेखा गुप्ता दिल्लीभाजपाध्यक्षः हर्ष मल्होत्रा च सर्वेभ्यः पार्षदेभ्यः भाजपायाः पट्टिकां धारयित्वा दलस्य सदस्यतां प्रदत्तवन्तौ।

अस्मिन् अवसरे मुख्यमन्त्री रेखा गुप्ता इन्द्रप्रस्थविकासपार्ट्याः संयोजकस्य मुकेश गोयलस्य हेमचन्दस्य अन्येषां पार्षदानां च भाजपापरिवारे स्वागतं कृतवती। सा उक्तवती यत् दिल्ल्यां चतुर् इंजन शासनं कार्यं करोति। एतादृश्यां स्थितौ इन्द्रप्रस्थविकासपार्ट्याः भाजपायां विलयः सम्पूर्णदिल्लीप्रदेशाय शुभसङ्केतः अस्ति।

मुख्यमन्त्री उक्तवती यत् सत्ता सुखोपभोगस्य माध्यमं न अपितु जनतायाः सेवायाः मञ्चः अस्ति। सा उक्तवती यत् स्वच्छस्वस्थदिल्लीप्रदेशस्य निर्माणाय भ्रष्टाचारं प्रति शून्यसहिष्णुतानीतेः सफलतायै च सर्वैः मिलित्वा कार्यं कर्तव्यम्।

अस्मिन् अवसरे दिल्लीभाजपाप्रदेशाध्यक्षः हर्ष मल्होत्रा इन्द्रप्रस्थविकासपार्ट्याः भाजपायां स्वागतं कुर्वन् उक्तवान् यत् आम आदमी पार्टी इत्यनेन असन्तुष्टाः केचन पार्षदाः गतवर्षे पृथक् भूत्वा मुकेश गोयलस्य नेतृत्वे इन्द्रप्रस्थविकासपार्टीं गठितवन्तः आसन्। अधुना तेषां भाजपापरिवारे सम्मिलनं दलस्य विचारधारायां विकासकार्येषु च विश्वासस्य प्रतीकम् अस्ति।

तथैव दिल्ल्यां जलसञ्चयस्थितिविषये हर्ष मल्होत्रा उक्तवान् यत् सद्यः जातयोः वर्षयोः समये राजधान्यां कुत्रापि अत्यधिकजलसञ्चयस्य समस्या न दृष्टा। सः उक्तवान् यत् दिल्लीनगरनिगमेन वर्षाकालात् पूर्वं व्यापकस्तरे सज्जता कृता अस्ति तथा वर्षाकाले नागरिकेभ्यः किमपि कष्टं न भवेत् इत्यर्थं निरन्तरं कार्यं क्रियते।

इन्द्रप्रस्थविकासपार्ट्याः भाजपायां सम्मिलितानां पार्षदानां नामानि मुकेश गोयलः हेमचन्द गोयलः देवेन्द्र कुमारः मनीषा जसवीर कराला उषा शर्मा अनिल राणा दिनेश भारद्वाजः बाबी किन्नर रोनाक्षी शर्मा अशोक पाण्डे साहिब कुमारः राखी यादवः राजेश लाडी हिमानी जैन कमल भारद्वाजः लीना कुमारी च।

---------------

Hindusthan Samachar / Dheeraj Maithani