Enter your Email Address to subscribe to our newsletters

सूरत, 10 जुलाईमासः (हि.स.)।
सूरतनगरस्य न्यू सिविल चिकित्सालयपरिसरस्थितस्य राजकीयनर्सिङ्गमहाविद्यालयस्य सप्त विद्यार्थिनः एम्स संस्थायाः राष्ट्रियस्तरीयां एनओआरसीईटी नर्सिङ्ग ऑफिसर्स रिक्रूटमेण्ट कॉमन एलिजिबिलिटी टेस्ट परीक्षाम् उत्तीर्य प्रतिष्ठिते अखिलभारतीयायुर्विज्ञानसंस्थाने एम्स मङ्गलगिरौ आन्ध्रप्रदेशे तथा एम्स भोपालनगरे नर्सिङ्ग ऑफिसर पदे चयनं प्राप्तवन्तः। एतेषु दक्षिणगुजरातस्य सामान्यपरिवारेभ्यः जनजातीयपरिवारेभ्यश्च आगताः विद्यार्थिनः अपि सम्मिलिताः सन्ति। सर्वे सफलविद्यार्थिनः केन्द्रीयजलशक्तिमन्त्रिणं सी आर पाटिलं मिलित्वा तस्य आशीर्वादं प्राप्तवन्तः।
अस्मिन् अवसरे सी आर पाटिलः विद्यार्थिभ्यः अभिनन्दनानि दत्त्वा अवदत् यत् ते यस्मिन् अपि राज्ये सेवां कुर्वन्तु तत्रत्यां भाषां संस्कृतिं च स्वीकृत्य रोगिणां संवेदनशीलतया सेवां कुर्वन्तु तथा गुजरातस्य नाम उज्ज्वलं कुर्वन्तु। सः महाविद्यालयस्य शिक्षकाणां कर्मचारिणां च प्रशंसाम् अपि अकरोत्।
महाविद्यालयस्य प्राचार्या डॉ इन्द्रावती राव अवदत् यत् अधुना पर्यन्तं महाविद्यालयस्य चत्वारिंशदधिकाः विद्यार्थिनः एम्स रेलसेवायाम् अन्यासु च केन्द्रीयसेवासु चयनिताः सन्ति। तथैव दक्षिणगुजरातस्य अष्टचत्वारिंशदधिकाः नर्सिङ्गव्यावसायिकाः एम्स संस्थासु कार्यरताः सन्ति तथा त्रिसहस्राधिकाः प्रशिक्षिताः परिचारिकाः ब्रिटेन अमेरिका कनाडा ऑस्ट्रेलिया सहितेषु अनेकेषु देशेषु स्वसेवाः प्रददति। सा अवदत् यत् एषा सफलता दक्षिणगुजराते नर्सिङ्गशिक्षायाः वर्धमानायाः गुणवत्तायाः विद्यार्थिनां परिश्रमस्य च परिणामः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani