हनुमानगढ्याः सोपानेषु नमाजपठनरूपं पापकर्तारः किं जामा मस्जिदस्थले हनुमान चालीसां कारयितुं पारयिष्यति : मुख्यमंत्री योगी
मुख्यमन्त्री बीकापुरविधानसभाक्षेत्रे द्वात्रिंशदधिकचतुःशतकोटिरूप्यकाधिकमूल्यानां सप्तदशाधिकद्विशतविकासपरियोजनानां लोकार्पणं शिलान्यासं च कृतवान् मुख्यमन्त्रिणः महती घोषणा भदरसानगरपञ्चायत् अधुना भरतनगर भरतकुण्ड इति नाम्ना ज्ञास्यते खिरौनी सुचित्ताग
अयोध्या में मुख्यमंत्री


वृक्षारोपण करते हुए मुख्यमंत्री


मुख्यमन्त्री बीकापुरविधानसभाक्षेत्रे द्वात्रिंशदधिकचतुःशतकोटिरूप्यकाधिकमूल्यानां सप्तदशाधिकद्विशतविकासपरियोजनानां लोकार्पणं शिलान्यासं च कृतवान्

मुख्यमन्त्रिणः महती घोषणा भदरसानगरपञ्चायत् अधुना भरतनगर भरतकुण्ड इति नाम्ना ज्ञास्यते खिरौनी सुचित्तागञ्जनगरपञ्चायत् मातुः ज्वालादेव्याः नाम्ना भविष्यति

अयोध्या, 10जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः आस्थायाः प्रदर्शनं कुर्वतां दलानां विरुद्धं रामनगर्याम् उग्रं प्रहारं कृतवान्। सः उक्तवान् यत् एते जनाः हनुमानगढ्यां नमाजपाठं कारितवन्तः आसन् किन्तु किं समाजवादीपार्टी काङ्ग्रेसदलम् अथवा अन्यानि शासनानि जामामस्जिदस्थले हनुमानचालीसापाठं कारयितुं शक्नुयुः। यदि न शक्नुयुः तर्हि हनुमानगढ्याः सोपानेषु नमाजपाठं कारयितुं पापं किमर्थं कृतम् आसीत्। आस्थायाः प्रदर्शनं कुर्वद्भिः जनैः एतत् पापं कृतम् आसीत् जबकि भाजपया अयोध्या सनातनधर्मस्य सांस्कृतिकराजधानीरूपेण प्रतिष्ठापिता।

मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे उत्तरप्रदेशस्य बीकापुरविधानसभाक्षेत्रे द्वात्रिंशदधिकचतुःशतकोटिरूप्यकाधिकमूल्यानां सप्तदशाधिकद्विशतविकासपरियोजनानां लोकार्पणं शिलान्यासं च कृतवान्। अस्मिन् अवसरे अयोध्यायाः विकासकार्याधारिता लघुचलच्चित्रिका अपि प्रदर्शिता। मुख्यमन्त्री अत्र पूर्वमन्त्रिणः मुन्ना सिंह चौहानस्य प्रतिमायाः अनावरणम् अपि कृतवान् तथा लोकार्पितानां शिलान्यासितानां च विविधयोजनानाम् उल्लेखं कृत्वा तासां श्रेयः जनतायै जनप्रतिनिधिभ्यश्च दत्तवान्।

मातुः ज्वालादेव्याः नाम्ना भविष्यति खिरौनी सुचित्तागञ्जनगरपञ्चायत् भदरसानगरपञ्चायत् अधुना भरतनगर भरतकुण्ड भविष्यति

मुख्यमन्त्री उक्तवान् यत् बीकापुरविधायकः गतवारं खिरौनी सुचित्तागञ्जग्रामपञ्चायतं नगरपञ्चायतरूपेण परिवर्तितवान् आसीत्। अधुना तस्य आग्रहानुसारम् एषा नगरपञ्चायत् मातुः ज्वालादेव्याः नाम्ना भविष्यति। समाजवादीपार्ट्याः वास्तविकं चरित्रं सर्वैः दृष्टं स्यात् यदा तेषां उदाहरणभूतेन अध्यक्षेण भदरसायां धृष्टता कृता आसीत्। भदरसानगरपञ्चायत् अधुना भरतनगर भरतकुण्ड भविष्यति। भ्रातृ भ्रातृसम्बन्धं भरतात् शिक्षध्वम्। चतुर्दशवर्षाणि भरतकुण्डस्य समीपे निवसन् सः भगवान् रामस्य आज्ञां पालितवान्। भगवान् रामस्य चरणपादुके अयोध्यायाः सञ्चालनं कुरुतः स्म। भरतसदृशं भ्रातरं प्राप्तुं कठिनम् अस्ति किन्तु अयोध्यायां राम लक्ष्मण भरत शत्रुघ्नसदृशाः भ्रातरः अभवन्। चतुर्षु दिक्षु अयोध्यायाः परिचयः अद्यापि विद्यमानः अस्ति।

सक्रियजनप्रतिनिधिना सकारात्मकाः परिणामाः प्राप्यन्ते

मुख्यमन्त्री उक्तवान् यत् यदि अभिप्रायः शुद्धः नीतिः स्पष्टा च भवति तर्हि नियन्ता अपि सहायः भवति। प्रभोः रामस्य पवनसुतस्य च आशीर्वादेन सर्वाणि कार्याणि स्वतः अग्रे वर्धन्ते। बीकापुरवासिभिः उत्तमः विधायकः चितः अतः विकासः धावन् दृश्यते। यथा अयोध्यायाः वैभवं देशे चरमोत्कर्षे दृश्यते तथैव बीकापुरे अपि विकासयोजनाः दृश्यन्ते। सक्रियजनप्रतिनिधयः यदा विकासे रुचिं गृह्णन्ति तदा परिणामाः अपि तथैव सकारात्मकाः भवन्ति यथा अद्य अयोध्या बीकापुर मिल्कीपुर गोसाईगञ्ज रुदौली च क्षेत्रेषु दृश्यन्ते।

कदाचित् विकासात् वञ्चिता आसीत् अयोध्या

मुख्यमन्त्री उक्तवान् यत् जूनमासस्य एकोनविंशतितमे दिनाङ्के वयं रुदौल्यां विकासयोजनानां सौगातं प्रदत्तवन्तः। पूर्वं यत् असम्भवम् आसीत् तत् एतेषां जनप्रतिनिधीनां कारणेन सम्भवम् अभवत्। दीर्घकालं यावत् मार्ग विद्युत् जलसुविधानाम् अभावेन अयोध्या उपेक्षिता विकासात् वञ्चिता च आसीत्। व्यवस्थायाः अभावेन श्रद्धालुः मातुः सरय्वाः आशीर्वादं प्राप्तुं विफलः भवति स्म किन्तु अधुना मातुः सरय्वाः पवित्रा धारा अयोध्यां अभिषिञ्चति।

त्रिभ्यः लोकेभ्यः विलक्षणा जाता अयोध्या

मुख्यमन्त्री उक्तवान् यत् अयोध्या अधुना वैभवशालिनी त्रिभ्यः लोकेभ्यः विलक्षणा च अस्ति। वीथयः प्रकाशन्ते विद्युत्प्रकाशः अपि निरन्तरं भवति। सूर्यवंशस्य राजधानी अयोध्या प्रधानमन्त्रिणः मोदी इत्यस्य दृष्ट्यनुसारं सौरनगरं जाता अस्ति। नवीनघट्टात् गुप्तारघट्टपर्यन्तं घट्टानां शृङ्खला अस्ति। मुख्यमन्त्री सर्वान् आहूतवान् यत् कदाचित् उपेक्षितं गुप्तारघट्टम् अधुना परिवारैः सह भ्रमणार्थं गच्छन्तु। वयं सूरजकुण्डस्य पुनरुद्धारं कृतवन्तः। स्थानीयविधायकस्य प्रस्तावेन भरतकुण्डस्य सौन्दर्यीकरणम् अपि क्रियते।

समाजवादीपार्टी काङ्ग्रेसश्च किमपि कर्तुं न शक्तवत्यौ अतः अयोध्याविरोधे प्रवृत्ते

मुख्यमन्त्री समाजवादीपार्टीं लक्ष्यीकुर्वन् उक्तवान् यत् एते जनाः विमानस्थानकस्य नाम्ना जनान् भ्रमयन्ति स्म किन्तु अधुना महर्षेः वाल्मीकेः नाम्ना अयोध्यायाम् अन्तरराष्ट्रियविमानस्थानकं निर्मितम् अस्ति। अयोध्या सर्वैः नगरैः सह सम्बद्धा जाता अस्ति। समाजवादीपार्ट्याः काङ्ग्रेसस्य च जनाः किमपि कर्तुं न शक्तवन्तः अतः अयोध्यायाः विरोधं कुर्वन्ति। डबल इंजन शासनेन निषादराजस्य नाम्ना रात्रिविश्रामगृहं मातुः शबर्याः नाम्ना भोजनालयं च निर्माप्य सामाजिकसमरसता प्रसारिता। हरिद्वारे हरि की पैडी इव अयोध्यायां राम की पैडी दृश्यते। प्रतिदिनं सरयूमातुः आरात्रिकं भवति। समाजवादीपार्टी यत्र वक्फ इत्यस्य नाम्ना शृङ्गवेरपुरे अधिग्रहणं कारयति स्म तत्र भाजपाशासनेन भगवान् रामस्य निषादराजस्य च मिलनस्य भव्यप्रतिमा स्मारकं च निर्मितम्। समाजवादीपार्ट्याः जनाः गत्वा पश्यन्तु यत् शृङ्गवेरपुरं सौन्दर्यीकरणस्य नूतनशिखरं प्राप्तम् अस्ति।

समाजवादीपार्टी काङ्ग्रेसश्च बाधां कृतवत्यौ डबल इंजन शासनम् आगतं तदा राममन्दिरं निर्मितम्

मुख्यमन्त्री उक्तवान् यत् काङ्ग्रेसः समाजवादीपार्टी च मन्दिरनिर्माणे बाधाः उत्पादितवत्यौ रामस्य नाम्नि प्रश्नान् उत्थापितवत्यौ रामभक्तेषु गोलिकाप्रहारं कारितवत्यौ किन्तु डबल इंजन शासनम् आगतं तदा राममन्दिरं निर्मितम्। अयोध्याम् आगच्छन् प्रत्येकः जनः अधुना भावविभोरः भूत्वा प्रतिगच्छति। भक्तिपथः धर्मपथः रामपथः जन्मभूमिपथश्च अयोध्यायाः परिचयाः भवन्ति। एकपथीयमार्गाणां स्थाने अधुना चतुष्पथीयाः षट्पथीयाश्च मार्गाः सन्ति। वायु रेल मार्गसम्पर्काः अयोध्यायै नूतनं परिचयं प्रयच्छन्ति। बीकापुर रुदौली मिल्कीपुर गोसाईगञ्ज च क्षेत्राणि अपि लाभं प्राप्नुवन्ति।

देशे विश्वे च अयोध्यावासिनः प्रदेशवासिनश्च सम्मानं प्राप्नुवन्ति

मुख्यमन्त्री उक्तवान् यत् डबल इंजन शासनेन मर्यादायाः सीमायां स्थित्वा निरन्तरं कार्यं कृतम्। द्विसहस्रसप्तदशवर्षात् पूर्वं जनाः संशयदृष्ट्या पश्यन्ति स्म किन्तु अद्य अयोध्यावासिनः प्रदेशवासिनश्च देशे विश्वे च यत्र कुत्रापि गच्छन्ति तत्र सम्मानं प्राप्नुवन्ति। अयोध्यायाम् अधुना विकासस्य परम्परायाश्च अद्भुतः समन्वयः भवति। यत् पञ्चशतवर्षेषु न सम्भूतम् तत् अयोध्या अधुना कृत्वा दर्शयति। सन्तैः राजभिः युवराजैः सहितं समाजस्य प्रत्येकवर्गेण रामजन्मभूमिमुक्तये संघर्षः कृतः। ये वदन्ति स्म यत् पक्षी अपि पक्षौ न प्रसारयितुं शक्नोति ते पश्यन्तु यत् अयोध्यायां दर्शनार्थं लक्षशः श्रद्धालवः आगच्छन्ति।

विपरीतपरिस्थितिषु संघर्षस्य उत्साहः अयोध्यायाः परिचयः

मुख्यमन्त्री प्रतिकूलवातावरणे समागताय जनसमूहाय कृतज्ञतां प्रकटितवान्। सः उक्तवान् यत् गतदिनद्वयात् अत्र निरन्तरं वर्षा भवति। मम शङ्का आसीत् यत् वर्षायाः कारणेन जनाः अत्र आगन्तुं शक्ष्यन्ति वा न किन्तु वातावरणस्य आव्हानस्य मध्ये अपि जनाः आगतवन्तः यतः विपरीतपरिस्थितिषु संघर्षस्य उत्साहः एव अयोध्यायाः परिचयः अस्ति।

अस्मिन् अवसरे महापौरः गिरीश पति त्रिपाठी विधायकः रामचन्द्र यादवः अभय सिंहः चन्द्रभानु पासवानः जिलापञ्चायत् अध्यक्षा रोली सिंहः पूर्वविधायिका शोभा सिंह चौहानः गोरखनाथ बाबा इन्द्रप्रताप तिवारी खब्बू भाजपायाः जिलाध्यक्षः राधेश्याम त्यागी महानगराध्यक्षः कमलेश श्रीवास्तवः इत्यादयः उपस्थिताः आसन्। बीकापुरस्य विधायकः डा अमित सिंह चौहानः अतिथीनां स्वागतं कृतवान्।

Hindusthan Samachar / Dheeraj Maithani