अन्नपूर्णायोजनायाः राशौ विलंबे मुख्यमंत्री कथितवान् : मासद्वयेन पूर्णं भविष्यति सत्यापनम्, अवैध-लाभार्थिभ्यो भविष्यति कार्यवाही
कोलकाता, 10 जुलाईमासः (हि. स.)।अन्नपूर्णायोजनायाः राशिः समये न प्राप्यमाणा अस्ति अतः राज्यस्य अनेकेषु जनपदेषु महिलानाम् आक्रोशः वर्धमानः अस्ति। कुत्रचित् धनराशेः भुगतानं भवति कुत्रचित् च अद्यावधि राशिः न प्राप्ता अस्ति येन निरन्तरं शिकायताः सम्मुखम
स्वास्थ्य भवन में शुभेंदु अधिकारी


कोलकाता, 10 जुलाईमासः (हि. स.)।अन्नपूर्णायोजनायाः राशिः समये न प्राप्यमाणा अस्ति अतः राज्यस्य अनेकेषु जनपदेषु महिलानाम् आक्रोशः वर्धमानः अस्ति। कुत्रचित् धनराशेः भुगतानं भवति कुत्रचित् च अद्यावधि राशिः न प्राप्ता अस्ति येन निरन्तरं शिकायताः सम्मुखम् आगच्छन्ति। अस्मिन् एव काले मुख्यमन्त्री शुभेंदु अधिकारी प्रथमवारं मुर्शिदाबादभ्रमणावसरे अस्मिन् विषये स्पष्टीकरणं दत्तवान् तथा च उक्तवान् यत् सर्वासां सामाजिककल्याणयोजनानां सत्यापनं क्रियते। सः सम्पूर्णप्रक्रियायै मासद्वयस्य समयं याचितवान्।

शुक्रवासरे बहरमपुरे आयोजिते कार्यक्रमे मुख्यमन्त्री उक्तवान् यत् पूर्वव्यवस्थायाः काले विविधयोजनासु व्यापकस्तरे भ्रष्टाचारः अभवत्। सः आरोपितवान् यत् जिलापरिषदः माध्यमेन निर्गतेषु अनेकेषु निविदापत्रेषु कूटप्रमाणपत्राणाम् उपयोगः कृतः। एतदतिरिक्तं लक्ष्मी भंडार योजनायाः प्रायः षट्शतं लाभार्थिनः अल्पसंख्यकछात्रवृत्तेः प्रायः पञ्चशताधिकत्रिसहस्रं खातानि अन्यासु च अनेकासु योजनासु कूटलाभार्थिनः अभिज्ञाताः सन्ति।

मुख्यमन्त्री उक्तवान् यत् अन्वेषणकाले एतदपि ज्ञातं यत् अनुसूचितजात्याः अनुसूचितजनजातेश्च वर्गे न आगच्छन्तः जनाः अपि लाभं प्राप्नुवन्ति स्म। तथैव शारीरिकरूपेण दिव्याङ्गाः न सन्तः अपि केचन जनाः दिव्याङ्गवृत्तेः लाभं प्राप्नुवन्ति स्म तथा च केषाञ्चित् नाम्ना दिव्याङ्गवृत्तेः भुगतानं क्रियते स्म।

सः सूचितवान् यत् सम्प्रति प्रत्येकस्य लाभार्थिनः केवाईसी आधारपत्रस्य वित्तकोषेण सह संयोजनं सहितं सर्वेषां प्रलेखानां सत्यापनं क्रियते। अस्यामेव प्रक्रियायां सहस्रशः कूटखातानि सम्मुखम् आगतानि सन्ति। मुख्यमन्त्री उक्तवान् यत् सर्वे खण्डविकासाधिकारिणः मासद्वयाभ्यन्तरे सामाजिककल्याणयोजनानां सत्यापनकार्यं पूर्णं कर्तुम् आश्वासनं दत्तवन्तः। सत्यापनस्य पूर्णतायाः अनन्तरं पात्रलाभार्थिनां खातेषु राशिः प्रेषयिष्यते कूटाचारं कुर्वतां विरुद्धं च वैधानिकी कार्यवाही करिष्यते।

अधिकारी सूचितवान् यत् राज्यसर्वकारेण सर्वासां सामाजिककल्याणयोजनानां समीक्षा कृता अस्ति। सः उक्तवान् यत् गङ्गानद्याः तटक्षरणसमस्यायाः समाधानार्थम् अपि केन्द्रसरकाराय प्रस्तावः प्रेषितः अस्ति तथा च अस्याः परियोजनायाः व्ययं केन्द्रसरकारः राज्यसरकारश्च संयुक्तरूपेण वहिष्यतः।

मुख्यमन्त्रिणः अनुसारम् अद्यावधि द्वादशलक्षं महिलाः अन्नपूर्णायोजनायाः लाभं प्राप्तवत्यः सन्ति। सः उक्तवान् यत् यदि कश्चित् परिवारः अन्नपूर्णायोजनायाः वृद्धावस्थावृत्तेः अन्यासां च सामाजिकयोजनानां लाभं युगपत् प्राप्नोति तर्हि सः प्रतिमासं पञ्चदशसहस्ररूप्यकपर्यन्तं साहाय्यं प्राप्तुं शक्नोति। तथापि सत्यापनप्रक्रियायाः पूर्णतायाः अनन्तरमेव अवशिष्टानां पात्रलाभार्थिनां कोषेषु राशिः प्रेषयिष्यते।

Hindusthan Samachar / Dheeraj Maithani