असमप्रदेश: - वित्तमन्त्री अद्य सदने प्रस्तोष्यति २०२६–२७ वित्तवर्षस्य पूर्णं वित्तविवरणम्
गुवाहाटीनगरम्, १० जुलाईमास: (हि.स.)। षोडशतम्या: असमविधानसभायाः वित्तविवरणसत्रस्य पञ्चमे दिने अद्य सदने पूर्णवित्तविवरणं प्रस्तुतं भविष्यति। मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे द्वितीयकार्यकाले वित्तमन्त्री जयन्तमल्लबरुवा अद्य विधानसभायां
असम विधानसभा


गुवाहाटीनगरम्, १० जुलाईमास: (हि.स.)। षोडशतम्या: असमविधानसभायाः वित्तविवरणसत्रस्य पञ्चमे दिने अद्य सदने पूर्णवित्तविवरणं प्रस्तुतं भविष्यति। मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे द्वितीयकार्यकाले वित्तमन्त्री जयन्तमल्लबरुवा अद्य विधानसभायां २०२६–२७ वित्तवर्षस्य पूर्णवित्तविवरणं प्रस्तोष्यति। वित्तमन्त्रिणा प्रस्तूयमाने अस्मिन् पूर्णवित्तविवरणे सामान्यजनानाम् अपेक्षानां पूर्तिः भविष्यतीति आशा वर्तते।

ज्ञातव्यं यत् गतस्य जुलाईमासस्य ६ दिनाङ्कात् आरब्धं वित्तविवरणसत्रं जुलाईमासस्य ३१ दिनाङ्कपर्यन्तं प्रवर्तिष्यते। एतत् सत्रं षोडशकार्यदिवसान् यावत् भविष्यति, यस्मिन् बहूनां महत्त्वपूर्णविधेयकानां वित्तीययाचनानां च विषये चर्चा भविष्यति।

उल्लेखनीयं यत् पञ्चदशतम्याः असमविधानसभायाः अन्तिमे वित्तविवरण-सत्रे गतवर्षस्य फेब्रुवरीमासस्य १७ दिनाङ्के वित्तमन्त्री अजन्ताने ओग् वित्तीयवर्षस्य प्रथमचतुर्मासस्य (मार्च-मासात् जूनमासपर्यन्तम्) आवश्यक-व्ययस्य निर्वहणार्थं सदने अनुदानप्रस्तावं प्रस्तुतवती आसीत्। सामान्यतया निर्वाचनवर्षे नूतन-सर्वकारस्य गठन-पर्यन्तं शासकीय-कार्यसञ्चालनार्थं पूर्णवित्तविवरणस्य स्थाने अस्थाय्यनुदानमेव स्वीकृतं भवति। पूर्णवित्तविवरणस्य अनुमोदनं यावत् न भवति, तावत् अन्तरिमावधौ शासनस्य वित्तीयव्यवस्थायां काचिद् अव्यवस्था मा जायेत इति हेतोः अनुदानरूपं वित्तविवरणं प्रस्तोष्यते।

Hindusthan Samachar / Divya Ranjan