Enter your Email Address to subscribe to our newsletters

पटनानगरम्, १० जुलाईमासः (हि.स.)। मुख्यमन्त्री सम्राटचौधरी शुक्रवासरे सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशितसन्देशे अलिखत् यत् चीनदेशे आयोजितायाम् एशियाई-अधः-२३-अथलेटिक्स-प्रतियोगितायाः ४×४०० मीटर-मिश्रित-रिले-स्पर्धायां स्वर्णपदकं विजित्य भारतस्य गौरवं वर्धितवन्तं बिहारस्य प्रतिभासम्पन्नं क्रीडकं सेतुमिश्रं तथा भारतीयदलस्य सर्वान् क्रीडकान् प्रति हार्दिकाः शुभकामनाः अभिनन्दनानि च।
मुख्यमन्त्री अलिखत् यत् सेतुमिश्रः स्वस्य उत्कृष्ट-प्रदर्शनेन, दृढसङ्कल्पेन तथा अदम्यसाहसेन बिहारं समग्रं भारतं च गौरवान्वितवान्। तस्य एषा ऐतिहासिकी उपलब्धिः देशस्य बिहारस्य च युवभ्यः क्रीडकेभ्यश्च प्रेरणास्रोतः अभवत्। वयं तस्य उज्ज्वल-भविष्याय आगामि-प्रतियोगितासु निरन्तर-सफलतायै च मङ्गलकामनाः कुर्मः।
Hindusthan Samachar / Divya Ranjan