Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, १० जुलाईमासः (हि.स.)। ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरण-माझी शुक्रवासरे लोकसेवा-भवने अग्रिमाया: पवित्रायाः रथयात्रायाः सिद्धतासम्बद्धां उच्चस्तरीय-समीक्षासभां कृतवान्। अस्यां सभायां रथयात्रायाः सफल-सुचारुसञ्चालनार्थं सुरक्षा-व्यवस्था, जनसमूहनियन्त्रणम्, स्वास्थ्य-सुविधाः, यातायातप्रबन्धनम्, श्रद्धालूनां सुविधाश्च इत्यादिषु विषयेषु विस्तृतया चर्चा अभवत्।
मुख्यमन्त्री सर्वेषां विभागानाम् अधिकारिणां कर्मकराणां च मध्ये उत्तमसमन्वयस्य, सहयोगस्य, निरन्तर-संवादस्य च पालनम् विशेषतया बलपूर्वकम् उक्तवान्। सः अवदत् यत् रथयात्रावत् विशालस्य आयोजनस्य सफलसम्पादनाय सर्वेषु स्तरेषु पूर्वनियोजिता रणनीतिः तथा प्रभावी सञ्चारव्यवस्था अनिवार्या अस्ति, येन कस्यामपि परिस्थितौ सूचनानाम् अभावः न भवेत्।
मुख्यमन्त्री उक्तवान् यत् अनुभवीनां समर्थानां अधिकारिणां च नेतृत्वे रथयात्रा सुव्यवस्थितरूपेण सुरक्षितरूपेण च सम्पन्नां कर्तुं शक्यते। तेन अनुष्ठानानां समयानुसारं पालनम्, रथानां श्रद्धालूनां च सुरक्षा, जनसमूहनियन्त्रणम् तथा अग्निशमनव्यवस्थायाः प्राथमिकतां दातुं निर्देशाः प्रदत्ताः।
सभायां मुख्यमन्त्री महिलानां सुरक्षायै, सन्दिग्धक्रियाकलापानां तथा मादकद्रव्य-सेविनां निरीक्षणाय, यातायातव्यवस्थायै, भोजन-पेयजलयोः गुणवत्तापरीक्षणाय, आपत्कालीन-निर्गमनव्यवस्थायै तथा ऋतुस्थितिं दृष्ट्वा आवश्यकसिद्धतायै निर्देशान् अददात्।
सभायां सूचना प्रदत्ता यत् रथयात्रायाः सुरक्षार्थं द्वादशसहस्रं आरक्षककर्मिणः केन्द्रीयसशस्त्र-आरक्षकबलस्य सैनिकाश्च नियुक्ताः सन्ति। एतदतिरिक्तं भारतीयतट-रक्षकबलम् तथा भारतीय-नौसेना अपि सतर्के भविष्यतः। सुरक्षा-व्यवस्थायाः पर्यवेक्षणार्थं एकोनविंशतिः वरिष्ठ-आईपीएस-अधिकारिणः विशेषरूपेण नियुक्ताः सन्ति।
श्रद्धालुभ्यः उत्तमसुविधाः आवश्यक-सूचनाश्च प्रदातुं ४७३ सीसीटीवी-चित्रग्रहणयन्त्राणि तथा ६५ विशाल-एलईडी-पटलानि स्थाप्यन्ते। एतेषां पटलानां माध्यमेन ओड़िया, हिन्दी, आङ्ग्लभाषासु महत्त्वपूर्णाः सूचनाः प्रसारयिष्यन्ते।
चलदूरभाषाजालस्य सुविधां सुदृढां कर्तुं १६ स्थायि-दूरसञ्चार-स्तम्भैः सह अनेकाः अस्थायि-स्तम्भाः अपि व्यवस्थापिताः सन्ति। श्रद्धालूनां समीपे शीघ्रसूचना-प्रेषणार्थम् अस्मिन् वर्षे सामूहिक-सन्देश-प्रेषण-सुविधा अपि आरभ्यते।
सभायाम् उक्तं यत् दिव्याङ्ग-वृद्धश्रद्धालूनां कृते गुण्डिचा-मन्दिरे दर्शनस्य विशेषव्यवस्था करिष्यते। तदर्थं सहायताकेन्द्राणि स्थाप्यन्ते। जनसमूह-नियन्त्रणार्थं अनेके आपत्कालीन-निर्गमन-मार्गा: निर्मिता: सन्ति तथा सर्वासां सुरक्षा-गतिविधीनां पर्यवेक्षणार्थम् एकीकृतं कमाण्ड-एण्ड-कण्ट्रोल-केन्द्रम् अपि निर्मितम् अस्ति।
श्रद्धालूनां सुविधां दृष्ट्वा अस्मिन् वर्षे रथयात्राकाले १७०० जैव-शौचालयाः स्थाप्यन्ते। प्रत्येकेषां पञ्च-शौचालयानां स्वच्छतार्थम् एकः स्वयंसेवकः नियुक्तः भविष्यति। एतदतिरिक्तम् आपत्कालीन-स्वास्थ्यसेवार्थम् अष्ट अस्थायि-चिकित्सालयाः स्थाप्यन्ते।
रथयात्राकाले अस्मिन् वर्षे पुरीनगराय ३०० अधिकाः रेलयानसेवाः सञ्चालिताः भविष्यन्ति इति सम्भावना अस्ति। मुख्यमन्त्री रेलसेवानुसारं श्रद्धालूनाम् आगमनं दृष्ट्वा यातायातप्रबन्धने, सूचनाव्यवस्थायां तथा जनसमूहनियन्त्रणे प्रभावीपदानि ग्रहीतुं निर्देशान् अददात्।
सभायां श्रीजगन्नाथमन्दिरप्रशासनस्य मुख्यप्रशासकः डॉ. अरविन्दपाढ़ी तथा अतिरिक्त-आरक्षक-महानिदेशकः सौमेन्द्रप्रियदर्शी रथयात्रायाः सिद्धतायाः सुरक्षा-व्यवस्थायाश्च विस्तृतं विवरणम् प्रस्तुतवन्तौ।
सभायां विधिमन्त्री पृथ्वीराजहरिचन्दनः, मुख्यमन्त्रिणः परामर्शदाता प्रकाशमिश्रः, मुख्यसचिवा अनुगर्ग:, विकास-आयुक्तः डी.के. सिंहः, गृह-सूचना-जनसम्पर्क-विभागस्य अतिरिक्त-मुख्यसचिवः हेमन्त-शर्मा, आरक्षक-महानिदेशकः वाई.बी. खुरानिया, अग्निशमन-महानिदेशकः डॉ. सुधांशुषडङ्गी, मुख्य-मन्त्रिणः अतिरिक्त-मुख्यसचिवः शाश्वत-मिश्रः, पुरी-जनपदसमाहर्ता, आरक्षक-अधीक्षकः तथा विभिन्न-विभागानां वरिष्ठाधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan