मुख्यमन्त्री विष्णुदेवसायः अद्य भाजपापक्षस्य प्रदेशस्तरीय-सभायां सहभागी भविष्यति
रायपुरम्, १० जुलाईमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य शुक्रवासरे राजधान्यां रायपुरे स्थिते भारतीयजनतापक्षस्य प्रदेशकार्यालये आयोजितायां प्रदेशस्तरीय-सभायां सहभागी भविष्यति। निर्धारित-कार्यक्रमानुसारं सः प्रातः १०:४५ वादने स्वन
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, १० जुलाईमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अद्य शुक्रवासरे राजधान्यां रायपुरे स्थिते भारतीयजनतापक्षस्य प्रदेशकार्यालये आयोजितायां प्रदेशस्तरीय-सभायां सहभागी भविष्यति। निर्धारित-कार्यक्रमानुसारं सः प्रातः १०:४५ वादने स्वनिवासात् भाजपाकार्यालयं प्रति प्रस्थितः भविष्यति।

एषा सभा प्रायः द्विहोरापर्यन्तं प्रवर्तिष्यते। अस्यां सङ्गठनात्मक-गतिविधीनां समीक्षया सह विविधेषु सामयिकेषु राजनैतिकविषयेषु च चर्चायाः सम्भावना वर्तते। सभायां प्रदेश-भाजपायाः वरिष्ठ-पदाधिकारीणः तथा सङ्घटने सम्बद्धाः प्रमुख-नेतारः अपि उपस्थिताः भविष्यन्ति। सभा-समाप्तेः अनन्तरं मुख्यमन्त्री विष्णुदेवसायः स्वनिवासं प्रत्यागमिष्यति।

Hindusthan Samachar / Divya Ranjan