Enter your Email Address to subscribe to our newsletters

पटनानगरम्, १० जुलाईमासः (हि.स.)। मुख्यमन्त्री सम्राटचौधरी अद्य लोकसेवक-आवासस्थिते ‘संकल्प’ सभागारे ९७.८४ लक्ष-सामाजिक-सुरक्षा-पेन्शनधारिणां धनागारेषु प्रत्यक्ष-लाभ-अन्तरेण १,४२३.९४ कोटिरूप्यकाणां राशेः हस्तान्तरणं कृतवान्। अस्याः राशेः अन्तर्गतं तिसृषु राज्य-पेन्शन-योजनासु २०२६ तमवर्षस्य जूनमासस्य तथा त्रिषु एनएसएपी-पेन्शन-योजनासु २०२६ तमवर्षस्य मई-जूनमासयोः पेन्शनराशिः समाविष्टा अस्ति।
दूरदृश्य-सम्मेलन-माध्यमेन आयोजिते अस्मिन् कार्यक्रमे सामाजिक-सुरक्षा-पेन्शनधारिणः, सर्वेषां जनपदानां जनपदाधिकारिणः तथा गणमान्यजनाः अपि सम्बद्धाः आसन्। अस्मिन् अवसरे मुख्यमन्त्री सामाजिक-सुरक्षां अधिक-सुदृढां प्रभाविकां च कर्तुं महत्त्वपूर्णां घोषणां कृतवान् यत् अधुना प्रतिमासस्य दशम: ‘बिहार-पेन्शन-दिवसः’ इति रूपेण आचरिष्यते। अस्मिन् दिने राज्यस्य सर्वेषां पात्र-पेन्शनधारिणां धनागारेषु प्रतिमासस्य दशम्यां तिथौ डीबीटी-माध्यमेन पेन्शनराशिः प्राप्यते इति सुनिश्चितं भविष्यति।
मुख्यमन्त्री अवदत् यत् अद्य राज्यस्य ९७.८४ लक्ष-सामाजिक-सुरक्षा-पेन्शन-धारिणां धनागारेषु १,४२३.९४ कोटि-रूप्यकाणां राशिः प्रत्यक्ष-लाभ-अन्तरण-माध्यमेन सफलतापूर्वकं प्रेषिता। अस्मिन् अवसरे सर्वेभ्यः सामाजिक-सुरक्षा-पेन्शनधारिभ्यः सः शुभकामनाः प्रदत्तवान्। एतत् सर्वकारस्य पारदर्शिन्याः, उत्तरदायित्वयुक्तायाः तथा प्रौद्योगिकी-आधारित-जनकल्याणकारी-व्यवस्थायाः प्रमाणम् इति सः अवदत्।
सः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे दरिद्राणां, वृद्धानां, दिव्याङ्गानां तथा समाजस्य वञ्चितवर्गाणां सम्मानं सामाजिक-सुरक्षा च सर्वोच्चप्राथमिकता प्राप्तवती। पूर्वमुख्यमन्त्रिणः नीतीश-कुमारस्य नेतृत्वे बिहारे सामाजिक-सुरक्षा-योजनानां प्रभावी क्रियान्वयनं सुनिश्चितं कृतम्।
मुख्यमन्त्री उक्तवान् यत् सहयोग-शिविर-कार्यक्रमस्य तथा पञ्चायत-विकास-दिवस-कार्यक्रमस्य अवसरे जनैः सह संवादं कृत्वा सामाजिक-सुरक्षा-पेन्शन-इत्यस्य कोऽपि पात्र-लाभार्थी न वञ्चितः भवेत् इति सुनिश्चितं क्रियताम् तथा तदर्थम् अभियानं सञ्चाल्यताम्। येषाम् आधारपत्रं न सम्बद्धम् अस्ति, तेषाम् आधार-संयोजनं शीघ्रं कारयितव्यम्। सः अवदत् यत् पेन्शन-वितरणं समयबद्धं, पारदर्शि तथा शत-प्रतिशतं सुनिश्चितं भवेत्, येन प्रत्येकं पात्रं नागरिकः सम्मानपूर्वकं सामाजिक-सुरक्षायाः लाभं प्राप्नुयात्।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारस्य उद्देश्यं केवलम् आर्थिक-सहायतां प्रदातुं नास्ति, अपितु समाजस्य प्रत्येकं आवश्यकतान्वितस्य नागरिकस्य सम्मानं, सुरक्षा तथा आत्मविश्वासं सुदृढं कर्तुम् अस्ति। सामाजिक-सुरक्षा-पेन्शन-इत्यस्य राशिः ४०० रूप्यकेभ्यः वर्धयित्वा ११०० रूप्यकाणि कृतानि, येन जनानां जीवने सकारात्मकं परिवर्तनम् अभवत्। दरिद्र-वञ्चित-आवश्यकतान्वित-वर्गाणां सामाजिक-सुरक्षायै सर्वकारः दृढसंकल्पितः अस्ति।
Hindusthan Samachar / Divya Ranjan