Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 जुलाईमासः (हि.स)।
केन्द्रशासनेन आन्ध्रप्रदेशस्य फ्ल्यू क्योर्ड वर्जीनिया एफसीवी तम्बाकुविपणनसत्रस्य २०२५ २६ प्रगतेः समीक्षा कृता। अनेन सह तम्बाकुक्रयप्रक्रियायां गतिवर्धनाय समग्रविपणनतन्त्रस्य सुदृढीकरणाय निर्यातस्य सौकर्याय च उपायानां विषये हितधारकैः सह विचारविमर्शः कृतः।
वाणिज्योद्योगमन्त्रालयेन शुक्रवासरे निर्गते वक्तव्ये उक्तं यत् वाणिज्यविभागस्य अपरसचिवस्य नितिनकुमारयादवस्य आईएएस नेतृत्वे वरिष्ठाधिकारिणां दलेन हैदराबादनगरे प्रचलतः आन्ध्रप्रदेशस्य फ्ल्यू क्योर्ड वर्जीनिया एफसीवी तम्बाकुविपणनसत्रस्य २०२५ २६ समीक्षा कृता। दलेन तम्बाकुकृषकैः उत्पादविनिर्मातृभिः निर्यातकैः व्यापारिभिः व्यापारसङ्घैः तम्बाकुमण्डलेन च सह संवादः कृतः।
मन्त्रालयेन उक्तं यत् अस्मिन् उपवेशने विपण्याः वर्तमानस्थितेः समीक्षा कृता तथा तम्बाकुकृषकाणां हितरक्षणाय शासनस्य प्रतिबद्धता पुनः दृढीकृता। चर्चायाः समये फ्ल्यू क्योर्ड वर्जीनिया तम्बाकोः क्रयप्रक्रियायां गतिवर्धनाय निर्यातस्य सौकर्याय समग्रविपणनपारिस्थितिकतन्त्रस्य सुदृढीकरणाय च उपायेषु ध्यानं केन्द्रितम्।
अस्मिन् उपवेशने क्षेत्रस्य कार्यप्रणालीं सुदृढां कर्तुमुद्दिश्य कृतानां विविधोपक्रमाणामपि समीक्षा कृता। एतेषु तम्बाकुमण्डले संरचनात्मकपरिवर्तनानि ग्रोअर्स वेलफेयर फण्ड इत्यस्य अन्तर्गतं लाभवर्धनं पञ्जीकरणप्रक्रियायाः सरलीकरणं डिजिटलोपक्रमाः कृत्रिमबुद्धिमत्ताधारितश्रेणीकरणस्य प्रारम्भश्च सम्मिलिताः सन्ति। विभिन्नदेशेषु निर्यातविपण्यां अवसरवर्धनस्य उपयुक्तस्थलेषु क्रमपरिवर्तनेन सस्योत्पादनस्य प्रोत्साहनस्य च विषये अपि चर्चा कृता।
वाणिज्यविभागस्य अपरसचिवः नितिनकुमारयादवः विश्वासं प्रकटितवान् यत् सर्वेषां हितधारकाणां संयुक्तप्रयासैः भारतीयस्य फ्ल्यू क्योर्ड वर्जीनिया तम्बाकुक्षेत्रस्य दीर्घकालिकस्थायित्वं वैश्विकप्रतिस्पर्धाक्षमता च सुदृढा भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani