Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 जुलाईमासः (हि.स.)।
दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता शुक्रवासरे केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिन गडकरी इत्यस्मै पत्रं लिखित्वा दक्षिणदिल्लीस्थितं मांडीमार्गं राष्ट्रियमार्गरूपेण घोषयितुं तथा अस्य विकासकार्यं भारतीयराष्ट्रीयराजमार्गप्राधिकरणाय एनएचएआई इत्यस्मै समर्पयितुं निवेदनं कृतवती।
मुख्यमन्त्रिणा स्वपत्रे उक्तं यत् प्रायः ८.८ किलोमीटरदीर्घः मांडीमार्गः दिल्ली एनसीआर क्षेत्रस्य महत्त्वपूर्णः रणनीतिकमार्गगलियारा अस्ति। अयं छतरपुरमेट्रोस्थानकस्य समीपे स्थितं महरौली गुरुग्राममार्गं एनएच १४८ ए इति दिल्ली हरियाणासीमायां गुरुग्राम फरीदाबादमार्गेण सह संयोजयति। अयं मार्गः राष्ट्रियराजधानीक्षेत्रदिल्लीप्रदेशस्य समीपवर्तिनोः आर्थिककेन्द्रयोः गुरुग्राम फरीदाबादयोश्च मध्ये महत्त्वपूर्णसम्पर्कसेतुरूपेण कार्यं करोति तथा अन्तर्राज्यीययातायातस्य सुचारुसञ्चालने महत्त्वपूर्णां भूमिकां निर्वहति।
मुख्यमन्त्रिणा पत्रे एतदपि उल्लिखितं यत् यूनिफाइड् ट्रैफिक् एण्ड् ट्रांसपोर्टेशन इन्फ्रास्ट्रक्चर् प्लानिंग् एण्ड् इंजीनियरिंग् सेंटर् यूटीटीआईपीईसी इत्यस्य शासिनिकायेन २०२३ तमस्य वर्षस्य सितम्बरमासस्य २७ दिनाङ्के आयोजिते ६८ तमे उपवेशने मांडीमार्गस्य महत्त्वं स्वीकृत्य अस्य विस्तारीकरणस्य व्यापकविकासस्य च प्रस्तावः समर्थितः आसीत्।
सा उक्तवती यत् मांडीमार्गस्य रणनीतिकमहत्त्वं वर्तमानभावियातायातापेक्षां तथा राष्ट्रियमार्गेण १४८ ए इत्यनेन सह अस्य प्रत्यक्षसम्पर्कं दृष्ट्वा एतं मार्गं एनएचएआई इत्यस्य कार्यक्षेत्रे आनेतुं विचारः करणीयः।
मुख्यमन्त्रिणा केन्द्रीयमन्त्रिणं निवेदितं यत् मांडीमार्गं राष्ट्रियमार्गरूपेण घोषयित्वा अस्य विकासस्य दायित्वं एनएचएआई इत्यस्मै समर्प्यताम्, येन अस्य विकासाय एकीकृता योजना निर्मातुं, समानाभियान्त्रिकमानकानि स्वीकर्तुं तथा अस्य महत्त्वपूर्णमार्गगलियारस्य समयबद्धम् उन्नयनं सुनिश्चितं कर्तुं शक्येत।
सा उक्तवती यत् अनया पहलया प्रतिदिनम् एतस्य मार्गस्य उपयोगं कुर्वद्भ्यः यात्रिभ्यः श्रेष्ठतरा अधिकसुगमा च यातायातसुविधा प्राप्स्यते। सहैव दिल्ली एनसीआर क्षेत्रे सम्पर्कव्यवस्था अधिकं सुदृढा भविष्यति तथा क्षेत्रीयार्थिकविकासोऽपि नूतनां गतिं प्राप्स्यति।
मुख्यमन्त्रिणा अस्मिन् महत्त्वपूर्णविषये केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिन गडकरी इत्यस्मात् सकारात्मकविचारस्य आग्रहः कृतः तथा अस्य विषयस्य अग्रे प्रवर्तनाय तस्य निरन्तरसहयोगस्य अपेक्षापि प्रकटिता।
-----------
Hindusthan Samachar / Dheeraj Maithani