Enter your Email Address to subscribe to our newsletters

– मन्त्री रामविचार-नेतामेन छात्राभ्यः द्विचक्रिका: वितरिताः, मेधावी-विद्यार्थिनः सम्मानिताः; शिक्षाविकाससम्बद्धाः अनेकाः महत्त्वपूर्णाः घोषणाः कृताः
बलरामपुरम्, १० जुलाईमासः (हि.स.)। रामानुजगञ्जे आयोजिते जनपदस्तरीय-विद्यालय-प्रवेशोत्सवे नवप्रविष्ट-विद्यार्थिनां स्वागतं कृतम् तथा मेधावीन: छात्राः सम्मानिताः। अस्मिन् कार्यक्रमे आदिमजाति-विकास-कृषिमन्त्री रामविचार-नेतामः शिक्षायाः महत्त्वम् उद्घाटयन् क्षेत्रस्य कृते इण्डोर-क्रीडाङ्गणम्, पञ्चशतम् आसन-क्षमतायुक्तेन सभागारेण च सह अनेकाः महत्त्वपूर्णाः घोषणाः अकरोत्।
जनपदस्तरीय: शाला-प्रवेशोत्सवः शुक्रवासरे रामानुजगञ्जस्य काका-लरंगसाय-समुदाय-सभागारे आयोजितः। कार्यक्रमे आदिमजाति-विकास-कृषि-कृषक-कल्याण-मत्स्यपालन-पशुपालनमन्त्री रामविचार-नेतामः मुख्यातिथिरूपेण उपस्थितः आसीत्। अस्मिन् अवसरे नवप्रविष्टानां छात्राणां तिलकं कृत्वा मिष्टान्नं भोजयित्वा स्वागतं कृतम्। तेभ्यः निःशुल्क-पाठ्यपुस्तकानि, विद्यालय-स्यूता: तथा विद्यालय-गणवेशाः अपि वितरिताः।
कार्यक्रमे सरस्वती-द्विचक्रिका-योजनायाः अन्तर्गतं नवम-कक्षायां प्रविष्टाभ्यः छात्राभ्यः द्विचक्रिका: प्रदत्ताः। तथा दशम- तथा द्वादश-कक्षायाः मण्डल-परीक्षासु उत्कृष्ट-प्रदर्शनं कृतवन्तः विद्यार्थिनः पदकैः पुरस्कारैश्च सम्मानिताः।
समारोहस्य आरम्भः विद्यालयीय-छात्राभिः प्रस्तुतेन स्वागत-गीतेन अभवत्। ततः अनन्तरं बालिकाभिः शिक्षायाः महत्त्वस्य बालिका-सशक्तीकरणस्य च विषये आधारिताः सांस्कृतिक-नाट्य-प्रस्तुतयः प्रदर्शिताः। एकलव्य-आवासीय-विद्यालयस्य छात्राभिः छत्तीसगढी-लोकनृत्यस्य प्रस्तुतेः कार्यक्रमः अधिकम् आकर्षकः अभवत्।
स्वीय-सम्बोधने मन्त्री रामविचार-नेतामः अवदत् यत् प्रत्येकं बालकं प्रति गुणवत्तायुक्त-शिक्षायाः प्रापणं समाजस्य शासनस्य च संयुक्तं दायित्वम् अस्ति। तेन पालकान् स्वबालकान् नियमितरूपेण विद्यालयं प्रेषयितुम् आहूतवान् तथा उक्तवान् यत् शिक्षितः समाजः एव विकसित-राष्ट्रस्य दृढम् आधारं निर्माति।
तेन उक्तं यत् प्रदेशस्य उच्च-विद्यालयेषु स्मार्ट-कक्षा-सुविधाः विकसिताः क्रियमाणाः सन्ति, येन विद्यार्थिनः आधुनिक-प्रौद्योगिक्या माध्यमेन उत्तमां शिक्षां प्राप्नुयुः। तेन विद्यार्थिनः मनोयोगेन अध्ययनं कर्तुं स्वलक्ष्यस्य प्राप्त्यर्थं निरन्तरं प्रयत्नं कर्तुं च प्रेरिताः।
मन्त्री अवदत् यत् प्रदेश-सर्वकारस्य अर्धत्रिवर्षीय-कार्यकाले क्षेत्रे मार्ग-शिक्षा-क्रीडा-अधोसंरचना-क्षेत्रेषु द्रुतगत्या विकासकार्याणि प्रवर्तन्ते। तेन सूचितं यत् बलरामपुरे रामानुजगञ्जे च क्रीडा-प्रतिभानां कृते उत्तम-सुविधा-प्रदानार्थम् इण्डोर-क्रीडाङ्गणयोः स्वीकृतिः प्राप्ता। तेन रामानुजगञ्जे पञ्चशत-आसन-क्षमतायुक्तस्य सभागारस्य निर्माणस्य अपि घोषणा कृता। कन्या-उच्च-माध्यमिक-विद्यालयस्य नूतन-भवनस्य स्वीकृत्यर्थं प्रयत्नं करिष्यामीति आश्वासनमपि दत्तम्।
मन्त्री रामविचार-नेतामः विकासकार्येषु विघ्नः मा भवतु इति हेतोः शासकीय-भूमेः अतिक्रमणं स्वेच्छया अपसारयितुम् नागरिकान् प्रार्थितवान्। तेन सम्बद्ध-अधिकारिणः अपि अतिक्रमित-भूमेः विमोचनार्थं निर्देशिताः।
नगरपालिका-अध्यक्षः रमण-जायसवालः अवदत् यत् मन्त्री रामविचार-नेतामस्य प्रयत्नैः बलरामपुर-रामानुजगञ्जयोः इण्डोर-क्रीडाङ्गणयोः लाभः प्राप्तः, येन क्षेत्रस्य क्रीडकाणां कृते उत्तम-प्रशिक्षण-सुविधाः उपलब्धाः भविष्यन्ति।
कार्यक्रमे जनपद-पञ्चायत-अध्यक्षा हिरामुनि-निकुञ्जः, नगरपालिका-उपाध्यक्षा शीला-जायसवालः, जनपद-पञ्चायत-अध्यक्षः मुन्द्रिका-सिंहः, उपाध्यक्षः सुनील-तिवारी, जनपद-पञ्चायत-सदस्यौ मुंशीराम-साण्डिल्यः तथा बद्री-यादवः, अपर-समाहर्ता आर.एस. लालः, उपजिलाधिकारी आनन्दराम-नेतामः, मुख्य-नगरपालिका-अधिकारी सुधीर-कुमारः, जनपद-पञ्चायत-मुख्यकार्यपालन-अधिकारी रणवीर-सायः, अन्ये जनप्रतिनिधयः, अधिकारिणः, कर्मचारीणः, बहुसंख्यकाः पालकाः नागरिकाश्च उपस्थिताः आसन्।
/ अंशु गुप्ता