आधिक्येन अल्कोहलवत्सु औषधेषु सर्वकारःप्रतिबद्धः, अधुना अनुमत्या विना अथ चिकित्सकस्य अनुमतेन विना न भविष्यति विक्रयः
नव दिल्ली, 10 जुलाईमासः (हि.स.)।अधुना विपण्यां अधिकमद्यसारयुक्तानि औषधानि अनुज्ञापत्रं विना चिकित्सकस्य औषधनिर्देशपत्रं विना च न लभ्यन्ते। केन्द्रसर्वकारेण औषधनियमाः, १९४५ इत्येषु संशोधनं कृत्वा अधिकमात्रया मद्यसारयुक्तानाम् अर्थात् एथाइल् अल्कोहल्
स्वास्थ्य मंत्रालय का लोगो


नव दिल्ली, 10 जुलाईमासः (हि.स.)।अधुना विपण्यां अधिकमद्यसारयुक्तानि औषधानि अनुज्ञापत्रं विना चिकित्सकस्य औषधनिर्देशपत्रं विना च न लभ्यन्ते। केन्द्रसर्वकारेण औषधनियमाः, १९४५ इत्येषु संशोधनं कृत्वा अधिकमात्रया मद्यसारयुक्तानाम् अर्थात् एथाइल् अल्कोहल् युक्तानाम् औषधानां विक्रयवितरणयोः कठोरनियमाः प्रवर्तिताः सन्ति।

एतदन्तर्गतं द्वादशप्रतिशताधिकम् एथाइल् अल्कोहल् युक्तानि त्रिंशत् मिलिलीटर् अधिकपरिमाणयुक्तानि च सर्वाणि औषधनिर्मितानि पूर्ववत् अनुसूच्यन्तर्गतां मुक्तिं न प्राप्स्यन्ति। अर्थात् अधुना एतेषाम् औषधानां निर्माणाय विक्रयाय च अनुज्ञापत्रग्रहणम् अनिवार्यं भविष्यति।

सर्वकारेण एतानि औषधानि एच् १ अनुसूच्यां समावेशितानि सन्ति। अस्य अर्थः अस्ति यत् अधुना एतानि औषधानि केवलं पञ्जीकृतचिकित्सकस्य औषधनिर्देशपत्रेण एव विक्रेतुं शक्यन्ते। औषधविक्रयकेन्द्रैः एतेषां विक्रयस्य सम्पूर्णविवरणमपि संरक्षितव्यं भविष्यति। अस्य निर्णयस्य उद्देश्यं तादृशानाम् औषधानां दुरुपयोगस्य निवारणं सार्वजनिकस्वास्थ्यस्य श्रेष्ठतरं संरक्षणं च अस्ति।

स्वास्थ्यमन्त्रालयेन अद्य निर्गतायाः सूचनायाः अनुसारम्, एलायची, आर्द्रक तथा अन्येषां सुगन्धितटिङ्क्चर् इत्यादीनां केषुचित् औषधनिर्मितेषु ८० तः ९० प्रतिशतपर्यन्तम् एथाइल् अल्कोहल् प्राप्यते। एतेषाम् औषधरूपेण प्रयोगस्य स्थाने मादकद्रव्यरूपेण प्रयोगः क्रियते इति अनेकैः राज्यैः परिवेदनानि प्राप्तानि आसन्। एतदेव दृष्ट्वा अयं निर्णयः कृतः अस्ति।

मन्त्रालयस्य अनुसारं नूतननियमैः तादृशानाम् औषधानां विक्रयः केवलम् अधिकृतौषधापूर्तिव्यवस्थायाः माध्यमेन भविष्यति। अनेन एतेषां दुरुपयोगस्य निरोधः भविष्यति, यदा तु वास्तविकरोगिभ्यः आवश्यकतानुसारम् औषधानि पूर्ववत् उपलब्धानि भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani