Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 जुलाईमासः (हि.स.)।
भारतेन आस्ट्रेलियादेशेन च भारतस्य पारम्परिकज्ञानाङ्कीयग्रन्थालयं टीकेडीएल् इति विषये महत्त्वपूर्णः सन्धिः हस्ताक्षरितः। अयं सन्धिः गुरुवासरे मेलबर्ननगरे आयोजितस्य तृतीयस्य भारत आस्ट्रेलिया वार्षिकशिखरसम्मेलनस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी तथा आस्ट्रेलियादेशस्य प्रधानमन्त्री एंथनी अल्बनीज़ इत्येतयोः उपस्थितौ सम्पन्नः।
विज्ञानप्रौद्योगिकीविभागेन शुक्रवासरे सूचना प्रदत्ता यत् आस्ट्रेलियादेशेन सह सम्पन्नस्य अस्य सन्धेः अनन्तरम् अधुना अष्टादशदेशानां पेटेण्टकार्यालयेभ्यः टीकेडीएल् इत्यस्य उपयोगाधिकारः प्राप्तः अस्ति। टीकेडीएल् इत्यस्य साहाय्येन अधुना पर्यन्तं विश्वे पञ्चसप्तत्यधिकत्रिशताधिकानि तादृशानि एकस्ववेदनानि निरस्तानि, अस्वीकृतानि, संशोधितानि अथवा प्रत्याहृतानि सन्ति, यानि भारतस्य पारम्परिकज्ञाने आधारितानि आसन्। अयं सन्धिः भारतस्य सांस्कृतिकपारम्परिकविरासतस्य संरक्षणेन सह उभयोः देशयोः मध्ये बौद्धिकसम्पदः क्षेत्रे सहयोगमपि अधिकं सुदृढं करिष्यति।
अस्य सन्धेः अन्तर्गतं अधुना आस्ट्रेलियादेशस्य पेटेण्टकार्यालयः भारतस्य टीकेडीएल् दत्तांशसञ्चयस्य उपयोगं कर्तुं शक्ष्यति। यदा कदापि नूतनौषधस्य, उपचारस्य अथवा पारम्परिकज्ञानसम्बद्धस्य एकस्वस्य कृते आवेदनं प्राप्स्यते, तदा अधिकारिणः प्रथमं टीकेडीएल् मध्ये परीक्षणं करिष्यन्ति यत् तत्सम्बद्धा सूचना पूर्वमेव भारतस्य पारम्परिकज्ञानस्य भागः अस्ति वा न। यदि तथा ज्ञास्यते, तर्हि तस्मै नूतनं पेटेण्ट् न प्रदास्यते।
उल्लेखनीयम् अस्ति यत् टीकेडीएल् भारतस्य विशिष्टः अङ्कीयदत्तांशसञ्चयः अस्ति, यः २००१ तमे वर्षे सीएसआईआर् तथा आयुष्मन्त्रालयेन संयुक्तरूपेण निर्मितः आसीत्। अस्य उद्देश्यं आयुर्वेद, योग, यूनानी, सिद्ध तथा सोवा रिग्पा इत्यादीनां भारतीयपारम्परिकचिकित्सापद्धतीनां ज्ञानस्य च संरक्षणं तथा तेषु अनुचितरूपेण पेटेण्ट् प्रदानस्य निवारणम् अस्ति।
अस्मिन् दत्तांशसञ्चये ५.२ लक्षाधिकाः पारम्परिकौषधयोगाः उपचारपद्धतयश्च अभिलिखिताः सन्ति। एते आङ्ग्ल, जर्मन्, फ्रेञ्च्, जापानी तथा स्पेनी इत्यादिषु भाषास्वपि उपलब्धाः कारिताः सन्ति, येन विश्वस्य विभिन्नदेशानाम् एकस्वपरीक्षकाः एतान् सरलतया अवगन्तुं शक्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani