प्रत्येकं गृहे शुद्धपेयजलस्य सुनिश्चित्यर्थं ग्रामपञ्चायतेभ्यः दायित्वं प्रदास्यते, सामाजिक-लेखापरीक्षणमपि भविष्यति
– ग्रामीण-पेयजल-योजनानां सञ्चालन-परिपालन-नीत्याः विषये उच्चस्तरीया सभा सम्पन्ना रायपुरम्, १० जुलाईमासः (हि.स.)। छत्तीसगढे ग्रामीण-पेयजल-योजनानां दीर्घकालिक-स्थैर्यं सुचारु-सञ्चालनं च सुनिश्चितुं शुक्रवासरे मन्त्रालये महत्त्वपूर्णा सभा सम्पन्ना। मु
ग्रामीण पेयजल योजनाओं काे लेकर बैठक


– ग्रामीण-पेयजल-योजनानां सञ्चालन-परिपालन-नीत्याः विषये उच्चस्तरीया सभा सम्पन्ना

रायपुरम्, १० जुलाईमासः (हि.स.)। छत्तीसगढे ग्रामीण-पेयजल-योजनानां दीर्घकालिक-स्थैर्यं सुचारु-सञ्चालनं च सुनिश्चितुं शुक्रवासरे मन्त्रालये महत्त्वपूर्णा सभा सम्पन्ना। मुख्यसचिवस्य विकासशीलस्य अध्यक्षतायाम् आयोजितायां अस्यां सभायां जलजीवन-मिशन-२.० अन्तर्गतं लोकस्वास्थ्य-यान्त्रिकी-विभागस्य छत्तीसगढ-जलजीवन-अभियानस्य च अधिकारिभिः सह सञ्चालन-परिपालन-नीत्याः विषये व्यापकः विचारविमर्शः कृतः, आवश्यक-निर्देशाश्च प्रदत्ताः।

सभायां मुख्यसचिवेन निर्देशाः प्रदत्ताः यत् राज्ये निर्मितानां सर्वासां नल-जल-योजनानां सफल-सञ्चालनं शासनस्य निर्धारित-मानदण्डानुसारं क्रियताम्। तेन उक्तं यत् सर्वेषु ग्रामीण-गृहेषु प्रतिदिनं नलद्वारा शुद्धं जलं प्राप्येत इति उद्देश्येन व्यापक-रणनीतिः निर्मीयताम्। पेयजल-योजनानां संस्थागत-व्यवस्था सम्पूर्णतया ग्रामपञ्चायताभ्यः हस्तान्तरिता भविष्यति, एतदर्थं च पञ्चायताभ्यः सर्वविधं आवश्यकं सहयोगं प्रदास्यते। एतासां योजनानां परिपालनं ग्राम-जल-स्वच्छता-समितीनां माध्यमेन भविष्यति, येन जनसहभागिता सुनिश्चिता भविष्यति।

पारदर्शितां गुणवत्तां च सुनिश्चितुं मुख्यसचिवेन अधिकारिणः कठोरतया निर्देशिताः यत् योजनानां सम्यक् सञ्चालनस्य गुणवत्तायुक्त-पेयजल-आपूर्तेश्च परीक्षणार्थं सामाजिक-लेखापरीक्षणम् अनिवार्यतया कारयन्तु। तदतिरिक्तं प्रत्येकं ग्रामस्य ग्रामसभायां जलजीवन-अभियानस्य अन्तर्गतं पेयजल-आपूर्तेः विषये अनिवार्यरूपेण चर्चा क्रियतामिति निर्देशः प्रदत्तः।

सभायां योजनायाः दीर्घकालिक-क्रियान्वयनाय अनेकमहत्त्वपूर्ण-विषयेषु विस्तृतः विचारविमर्शः अभवत्। योजनानां परिपालनार्थं वित्त-प्रबन्धनस्य समुचित-जलशुल्क-निर्धारणस्य च विषये चर्चा कृता। जलस्य अपव्ययं न्यूनीकर्तुं उत्तम-राजस्व-प्राप्त्यर्थं च भविष्ये बजट-प्रावधानानुसारं जलमापक-यन्त्राणां स्थापनस्य विषये अपि विचारविमर्शः कृतः। पेयजलस्य गुणवत्तामूल्याङ्कनम्, विभिन्नस्तरेषु पर्यवेक्षण-व्यवस्था, अनुपालनं, सामुदायिक-सहभागिता, लेखापरीक्षणं च सम्बन्धिनः विषयाः अधिकारिभिः विस्तरेण प्रस्तुताः।

सभायां लोकस्वास्थ्य-यान्त्रिकी-विभागस्य सचिवः मोहम्मदकैसर: अब्दुलहकः छत्तीसगढ-जलजीवन-अभियान-नीतेः प्रारूपस्य तस्याः विविध-पक्षाणां च विषये विस्तृतं प्रस्तुतीकरणम् अकरोत्। अस्यां उच्चस्तरीय-सभायां पञ्चायत-ग्रामीण-विकास-विभागस्य सचिवः भीमसिंहः, जलजीवन-अभियानस्य, लोकस्वास्थ्य-यान्त्रिकी-विभागस्य तथा अन्येषां सम्बद्ध-विभागानां वरिष्ठ-अधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan