Enter your Email Address to subscribe to our newsletters


खूण्टीनगरम्, १० जुलाईमासः (हि.स.)। एकस्यै महिलायै कथितरूपेण विपरीतरक्त-समूहस्य रक्तं प्रदत्तम्, ततः अनन्तरं रिम्स-चिकित्सालये तस्याः मृत्युः अभवत्। अस्य घटनाक्रमस्य अनन्तरं प्रशासनद्वारा मुद्राङ्किते बिरसा मेडिकल साइन्स एण्ड रिसर्च इत्यत्र रोगिणां कृते निःशुल्कचिकित्सासेवा निरन्तरं प्रवर्तते। रोगिणां कृते एषा सुविधा जुलाई-मासस्य ३१ दिनाङ्कपर्यन्तम् अविरतं भविष्यति।
चिकित्सालयप्रबन्धनेन शुक्रवासरे उक्तं यत् बाह्यरोगिविभागः, सर्वविधाः परीक्षण-सेवाः, उपचारः, शल्यचिकित्सा च इत्येताः सर्वाः निःशुल्कसेवाः अस्य मासस्य ३१ दिनाङ्कपर्यन्तं निरन्तरं प्रदास्यन्ते।
उल्लेखनीयमस्ति यत् बिरसा-चिकित्सालये १ जूनमासतः ३० जूनमास-पर्यन्तम् आहत्य २२,३४४ रोगिणां निःशुल्कपरीक्षणं कृतम्। तथा च २०७ रोगिणां निःशुल्क-अल्ट्रासाउण्ड-परीक्षणं, ३४५ रोगिणां च निःशुल्क-किरण-परीक्षणम् सम्पन्नम्।
निरीक्षणं प्रचलति : शल्यचिकित्सकः
बिरसा-चिकित्सालयस्य मुद्राङ्कनस्य द्वितीयदिने एव चिकित्सासेवायाः पुनः प्रारम्भविषये शल्यचिकित्सकः डा. ललितरञ्जनपाठकः अवदत् यत् अस्य प्रकरणस्य अन्वेषणं प्रचलति। रोगिणां सौविध्यर्थम् एव चिकित्सासेवाप्रदानस्य अनुमतिः प्रदत्ता अस्ति।
Hindusthan Samachar / Divya Ranjan