Enter your Email Address to subscribe to our newsletters

भारतीयस्य विश्वस्य च इतिहासे ११ जुलाई-दिनाङ्कस्य स्वकीयम् विशेषं स्थानम् अस्ति। एषः दिवसः भारतस्य आर्थिकराजधानी मुम्बईनगरी भीषणेन विस्फोटेन कम्पितवान्। २००६ तमे वर्षे जुलाईमासस्य ११ दिनाङ्कस्य सायंकाले लक्षशः कार्यालयकर्मिणः स्वकार्यं समाप्त्य स्थानीयरेलयानैः स्वगृहं प्रत्यागच्छन्तः आसन्। सायं ६:२० वादने चर्चगेटस्थानकात् बोरीवलीनगरं प्रति गम्यमानस्य रेलयानस्य प्रथमश्रेणी-यानकोष्ठे खार तथा सान्ताक्रूज-स्थानकयोः मध्ये सहसा विस्फोटः अभवत्।
ततः किञ्चित्कालानन्तरमेव विभिन्नेषु रेलयानेषु विस्फोटानां वार्ताः प्रसृताः। अल्पेष्वेव निमेषेषु सप्त विस्फोटाः अभवन्। एतेषु विस्फोटेषु १८९ जनाः मृत्युम् अगच्छन्, प्रायः ८०० जनाश्च आहताः अभवन्। सर्वेऽपि एते विस्फोटाः मुम्बईस्थानीयरेलयानानां प्रथमश्रेणी-यानकोष्ठेषु अभवन्। खार, बांद्रा, जोगेश्वरी, माहिम, बोरीवली, माटुङ्गा तथा मीरा-भायन्दर-रेलस्थानकानां समीपे जातानां एतेषां विस्फोटानां अन्वेषणेन ज्ञातं यत् बमाः आरडीएक्स्, अमोनियम-नाइट्रेट् तथा फ्यूल-ऑयल इत्येतैः निर्मिताः आसन्। अधिकहानिं जनयितुं तेषु कीलकानि अपि स्थापितानि आसन्। सर्वे विस्फोटा: सूपचेषु स्थाप्य समय-निर्धारकयन्त्रेण विस्फोटिताः।
महत्त्वपूर्णाः घटनाः
१९२२ — हॉलीवुड्-बाउल इत्यस्य शुभारम्भः अभवत्।१९७९ — अमेरिकादेशस्य अन्तरिक्षप्रयोगशाला स्काईलैब् विखण्डिता भूत्वा ऑस्ट्रेलियादेशस्य पश्चिमतटे समुद्रे अपतत्।२००२ — चाङ् साङ् दक्षिणकोरियादेशस्य प्रथमा महिला प्रधानमन्त्री अभवत्।२००३ — लाहौरे ‘दोस्ती बस’ तथा देहल्याः ‘सदा-ए-सरहद’ बससेवायाः सञ्चालनम् आरब्धम्।२००४ — एच्.आइ.वी.-एड्स-विषये एशियादेशीयमन्त्रिणां सम्मेलनं बैंकॉक-नगरे सम्पन्नम्।२००४ — पाकिस्तानाधीनकश्मीरे निर्वाचनम् अभवत्।२००७ — विख्यातचित्रकारः एम.एफ. हुसैन न्यूयॉर्क-नगरस्य कलाप्रदर्शने मुख्यातिथिरूपेण सहभागी अभवत्।२००८ — पाकिस्तानस्य वजीरिस्तान-प्रान्ते अमेरिकादेशस्य वायुसैन्यस्य आक्रमणे ११ जनाः आहताः।
जन्म
१८५७ — भारतीयन्यायाधीशः राजनेता च सी. शङ्करन नायरः।१८९९ — राजस्थानराज्यस्य द्वितीयः मुख्यमन्त्री सी.एस. वेङ्कटाचारः।१९०२ — भारतस्य प्रथमः रक्षामन्त्री सरदारः बलदेवसिंहः।१९५६ — आङ्ग्लभाषायाः प्रसिद्धसाहित्यकारः अमिताभघोषः।
निधनम्
१९१२ — विख्यातः फ्रांसीयनेत्ररोगविशेषज्ञः फर्डिनाण्ड् मोनोयेरः।१९५७ — शिया-निजारी-इस्माइली-सम्प्रदायस्य आध्यात्मिकनेता आगा खान् (तृतीयः)।२००३ — भारतीयसाहित्यकारः भीष्मसाहनी।२०११ — परमवीरचक्रसम्मानितः सेकेण्ड् लेफ्टिनेण्ट् रामा राघोबा राणे।
महत्त्वपूर्णः अवसरः
विश्वजनसङ्ख्यादिवसः
Hindusthan Samachar / Divya Ranjan