आधुनिकोपकरणैः सुसज्जिताः भविष्यन्ति प्रदेशस्य सर्वे चिकित्सा-महाविद्यालयाः - मुख्यमन्त्री सुक्खू
शिमलानगरम्, १० जुलाईमासः (हि.स.)। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खू उक्तवान् यत् राज्यस्य सर्वे राजकीय-चिकित्सा-महाविद्यालयाः अस्य वर्षस्य अन्तपर्यन्तम् अत्याधुनिक-चिकित्सोपकरणैः सुसज्जिताः भविष्यन्ति। तस्य कथनम् अस्ति यत् राज्यवासिनां कृते उत्तमाः
मुख्यमंत्री स्वास्थ्य विभाग की बैठक की अध्यक्षता करते हुए


शिमलानगरम्, १० जुलाईमासः (हि.स.)। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खू उक्तवान् यत् राज्यस्य सर्वे राजकीय-चिकित्सा-महाविद्यालयाः अस्य वर्षस्य अन्तपर्यन्तम् अत्याधुनिक-चिकित्सोपकरणैः सुसज्जिताः भविष्यन्ति। तस्य कथनम् अस्ति यत् राज्यवासिनां कृते उत्तमाः स्वास्थ्यसेवाः राज्यस्य अन्तरेव उपलब्धाः भवेरन् इति सर्वकारस्य लक्ष्यं वर्तते।

मुख्यमन्त्री गुरुवासरे सायंकाले स्वास्थ्यविभागस्य समीक्षासभायाः अध्यक्षतां कुर्वन् अवदत् यत् स्वास्थ्यसंस्थासु कर्मचारिणां न्यूनतां दूरीकर्तुं राज्यसर्वकारेण सहस्राधिकेषु पदेषु नियुक्तिः कृता अस्ति। सः अवदत् यत् नवदेहलीस्थस्य एम्स-संस्थायाः आदर्शानुसारं प्रदेशस्य स्वास्थ्यसंस्थासु आधुनिकसुविधाः विकसिताः क्रियन्ते, येन रोगिभ्यः उत्तमः उपचारः प्राप्येत।

तेन उक्तं यत् डॉ. राजेन्द्रप्रसाद-राजकीय-चिकित्सा-महाविद्यालये टाण्डायाम्, डॉ. राधाकृष्णन-राजकीय-चिकित्सा-महाविद्यालये हमीरपुरे तथा अटल-चिकित्सा-सुपर-स्पेशियलिटी-आयुर्विज्ञान-संस्थायां चमियाणायाम् अत्याधुनिकाः परीक्षण-प्रयोगशालाः स्थाप्यन्ते। एतासां प्रयोगशालानां कृते राज्यसर्वकारेण ७५ कोटिरूप्यकाणि प्रदत्तानि।

मुख्यमन्त्री अवदत् यत् इन्दिरा-गान्धी-चिकित्सा-महाविद्यालये शिमलायां पीईटी-स्कैन-यन्त्रम् अधुना स्थापितम् अस्ति। टाण्डा-हमीरपुर-चिकित्सा-महाविद्यालययोः कृते अपि पीईटी-स्कैन-यन्त्रयोः क्रयप्रक्रिया प्रचलति। तेन सूचितं यत् विविधेषु पैरामेडिकल-श्रेणीषु ७१ पदानां तथा ५० कनिष्ठ-कार्यालय-सहायकस्य पदानां नियुक्तिप्रक्रिया प्रवर्तते। एतदतिरिक्तं पैरामेडिकल-श्रेणीषु १६२ नूतनपदानि अपि अनुमोदितानि सन्ति।

मुख्यमन्त्री उक्तवान् यत् चिकित्सा-महाविद्यालयेषु अध्ययनरतविद्यार्थिभ्यः उत्तमं शैक्षणिकवातावरणम् उपलब्धं कारयिष्यते तथा प्रत्येकं वर्गे ६० विद्यार्थिनां सङ्ख्या सुनिश्चिता भविष्यति। आईजीएमसी शिमलायां त्रयाणां व्याख्यान-प्रेक्षागृहाणां तथा एकस्य परीक्षाभवनस्य निर्माणार्थं ५.७६ कोटिरूप्यकाणि अनुमोदितानि। अपरञ्च टाण्डा-चिकित्सा-महाविद्यालये व्याख्यान-प्रेक्षागृह-निर्माणार्थम् अतिरिक्तानि १४.१३ कोटिरूप्यकाणि विनियोजितानि।

मुख्यमन्त्री अवदत् यत् एआईएमएसएस चमियाणायां २३.७५ कोटिरूप्यकव्ययेन क्रिटिकल-ब्लॉक-इत्यस्य तथा ४२ कोटिरूप्यकव्ययेन अतिरिक्त-भवनस्य निर्माणकार्यं प्रचलति। सः अधिकारिणः एतासां परियोजनानां कार्येषु शीघ्रताम् आनेतुम् निर्देशान् दत्तवान्।

Hindusthan Samachar / Divya Ranjan