Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १० जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शुक्रवासरे उज्जयिनी–जावरा हरितक्षेत्रीय-चतुर्मार्ग-मार्गपरियोजनायाः भूमिपूजनं करिष्यति। प्रायः ९८.७३ किलोमीटर-दीर्घायाः अस्याः महत्त्वाकाङ्क्षिण्याः परियोजनायाः निर्माणं ५०१७ कोटिरूप्यकाणां व्ययेन मध्यप्रदेश-मार्ग-विकास-निगमेन करिष्यते।
जनसम्पर्क-अधिकारी अरुणशर्मा इत्यनेन प्रदत्तानुसारं एषा परियोजना उज्जयिनी-दक्षिण-घट्टिया-नागदा-खाचरौद-आलोट-जावरा-विधानसभा-क्षेत्रैः गमिष्यति। द्विवर्षाभ्यन्तरे सम्पन्ना भविष्यन्ती एषा परियोजना प्रायः ३५ लक्ष-जनसंख्यायै तथा ६२ ग्रामेभ्यः प्रत्यक्षरूपेण लाभं प्रदास्यति।
तेन उक्तं यत् हरितक्षेत्रीय-चतुर्मार्गस्य निर्माणेन उज्जयिनी दिल्ली–मुम्बई-वेगमार्गेण सह प्रत्यक्षं शीघ्रं च सम्पर्कं प्राप्स्यति। विशेषतः सिंहस्थ-२०२८-समये राजस्थान-गुजरात- तथा देशस्य विविधभागेभ्यः आगच्छद्भ्यः श्रद्धालुभ्यः पर्यटकेभ्यश्च अयं मार्गः अत्यन्तं सुगमः सुविधाजनकश्च भविष्यति। सहैव इन्दौर-भोपाल- तथा मालवा-प्रदेशस्य सम्पर्क-व्यवस्था अपि अधिकं सुदृढा भविष्यति।
परियोजनायाः अन्तर्गतं ९८.७३ किलोमीटर-दीर्घः हरितक्षेत्रीय-चतुर्मार्गः, ३ रेल-उपमार्ग-सेतवः, ९ वृहद्-सेतवः, २६ मध्यम-सेतवः तथा ४१७ लघु-सेतवः निर्मास्यन्ते। एतदतिरिक्तं जावरा-परिहारमार्गे दिल्ली–मुम्बई-वेगमार्गस्य अन्तर्विनिमय-स्थलात् महू–नीमच-चतुर्मार्गपर्यन्तं उभयतः सेवामार्गयोः अपि निर्माणं प्रस्तावितम् अस्ति।
जनसम्पर्क-अधिकारिणः अनुसारम् एषा परियोजना क्षेत्रस्य औद्योगिक-वाणिज्यिक- तथा कृषिविकासाय नूतनां गतिं प्रदास्यति। कृषकाणां स्वोपजस्य विविध-कृष्युपज-मण्डीषु शीघ्रं प्रेषणे सुविधा भविष्यति। उद्योग-रसद-व्यवस्था तथा निवेश-सम्बद्ध-क्रियाकलापाश्च प्रोत्साहनं प्राप्स्यन्ति। उत्तम-सड़क-सम्पर्केण यात्रासमयस्य इन्धनस्य च बचतिः भविष्यति, मार्गसुरक्षायामपि उल्लेखनीयः सुधारः भविष्यति।
उज्जयिनी–जावरा हरितक्षेत्रीय-चतुर्मार्ग-परियोजना मध्यप्रदेशस्य प्रमुखासु आधारभूत-संरचना-परियोजनासु अन्यतमा अस्ति। अस्याः सम्पन्नतया प्रदेशस्य आर्थिक-औद्योगिक- तथा सामाजिक-प्रगतये नूतना दिशा प्राप्स्यते, मालवा-प्रदेशस्य समग्र-विकासश्च महत्त्वपूर्णां गतिं प्राप्स्यति।
Hindusthan Samachar / Divya Ranjan