Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 जुलाईमासः (हि.स.)।
राष्ट्रियमानवाधिकारायोगस्य एनएचआरसी अध्यक्षः न्यायमूर्तिः वी रामासुब्रमणियन् शुक्रवासरे हरियाणाराज्यस्य इष्टकानिर्माणशालासु बन्धितश्रमसम्बद्धानां षडशीतिप्रकरणानाम् आभासीयमञ्चे श्रवणकाले विशेषसहायतादूरभाषसेवां प्रारम्भं कर्तुं बलं दत्तवान् येन श्रमिकाणां कार्यस्य सम्पूर्णम् अभिलेखं स्थापयितुं शक्येत।
श्रवणकाले सः उक्तवान् यत् अधिकांशप्रकरणेषु सम्बद्धैः शासकीयाधिकारिभिः प्रपत्राणाम् अभिलेखानां च सम्यक् परीक्षणं न कृतम्। एतदेव कारणम् अस्ति यत् तेषां समीपे कञ्चित् जनं बन्धितश्रमिकं प्रमाणयितुं पर्याप्तानि विश्वसनीयानि च साक्ष्याणि न आसन्। सहायतादूरभाषसेवायाः प्रारम्भेण श्रमिकाणां कार्यस्य अभिलेखस्थापनेन सह तेषां साहाय्यं कर्तुं एतादृशघटनानां निवारणे च सफलता प्राप्तुं शक्येत।
रामासुब्रमणियन् अधिकारिभ्यः सतर्कतायाः परामर्शं ददन् उक्तवान् यत् यदा कदापि एतादृश्याः कस्याश्चित् परिवेदनायाः अन्वेषणार्थं दलं निर्मीयेत तदा श्रम रोजगार मन्त्रालयेन द्विसहस्रषड्विंशतितमवर्षस्य मईमासस्य चतुर्दशदिनाङ्के निर्गतानां नूतननियमावलीनां एसओपी इत्यस्य पूर्णतया पालनं क्रियताम्।
उपवेशनकाले आयोगेन जनपदेभ्यः प्राप्तानां कार्यवाहीप्रतिवेदनानाम् अपि गहना समीक्षा कृता। तदनन्तरं हरियाणाराज्यस्य मुख्यसचिवः श्रमायुक्तश्च आयोगं विश्वस्तवन्तौ यत् शासनम् एतेषां सर्वेषां षडशीतिप्रकरणानां पुनः सम्यक् अन्वेषणं करिष्यति तथा शीघ्रमेव स्वप्रतिवेदनं समर्पयिष्यति। तौ उक्तवन्तौ यत् अस्मिन् प्रकरणे उच्चतमन्यायालयस्य आदेशानां देशस्य विधीनां च पूर्णतया पालनं करिष्यते येन श्रमिकेभ्यः शीघ्रं साहाय्यं प्राप्तुं शक्येत।
एतदतिरिक्तं श्रवणकाले आयोगेन जनपदप्रशासकैः प्रस्तुतानां कार्यवाहीप्रतिवेदनानाम् अपि गहना समीक्षा कृता। अस्मिन् अवसरे संयुक्तसचिवः समीर कुमारः संयुक्तपञ्जीयकः विधिः इन्द्रजीत कुमारः तथा हरियाणाशासनस्य वरिष्ठपदाधिकारिषु मुख्यसचिवः अनुराग रस्तोगी श्रमायुक्तः विजयकुमार भाविकट्टी सर्वेषां जनपदानां जिलाधिकारिणश्च उपस्थिताः आसन्।
-------------
Hindusthan Samachar / Dheeraj Maithani