केंद्रीय मंत्री गडकरी अकरोत् गुजरातस्य राष्ट्रिय राजमार्ग परियोजनानां अकरोत् समीक्षाम्
गांधीनगरम्, 10 जुलाईमासः (हि.स.)। केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी शुक्रवासरे गान्धीनगरे गुजरातस्य मुख्यमन्त्रिणा भूपेन्द्र पटेलेन राज्यशासनस्य वरिष्ठाधिकारिभिश्च सह प्रदेशस्य राष्ट्रियराजमार्गपरियोजनानां व्यापकसमीक्षार्थम् उच्चस्तर
केंद्रीय मंत्री नितिन गडकरी और मुख्यमंत्री भूपेंद्र पटेल की समीक्षा बैठक


गांधीनगरम्, 10 जुलाईमासः (हि.स.)।

केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी शुक्रवासरे गान्धीनगरे गुजरातस्य मुख्यमन्त्रिणा भूपेन्द्र पटेलेन राज्यशासनस्य वरिष्ठाधिकारिभिश्च सह प्रदेशस्य राष्ट्रियराजमार्गपरियोजनानां व्यापकसमीक्षार्थम् उच्चस्तरीयम् उपवेशनं कृतवान्।

राज्यसूचनाविभागेन स्ववक्तव्ये सूचितं यत् अस्मिन् उपवेशने नवम्बरमासे द्विसहस्रपञ्चविंशतितमे वर्षे आयोजितस्य समीक्षोपवेशनस्य अनन्तरं जातायाः प्रगतेः विवरणं मुख्यसचिवेन एम के दासेन मुख्यमन्त्रिणः परामर्शदात्रा एस एस राठौडेन च प्रस्तुतम्। अस्मिन् विषये केन्द्रीयमन्त्री विभिन्नासु परियोजनासु जातां प्रगतिं प्रति सन्तोषं प्रकटितवान्। प्रस्तुतिकरणकाले वडोदरा मुम्बई राष्ट्रियराजमार्गस्य अष्टचत्वारिंशत्सङ्ख्याकस्य षट्पथीकरणकार्यस्य मोरबी सामाखियालीमार्गस्य सामाखियाली मालियाखण्डस्य राजकोट गोण्डल जेतपुरमार्गस्य अहमदाबाद वडोदरा द्रुतमार्गस्य अहमदाबाद गोधरा इन्दौरमार्गस्य जामनगर अमृतसरद्रुतमार्गस्य पालनपुर सामाखियालीमार्गिकायाः तथा अहमदाबाद शामलाजी षट्पथीयपरियोजनायाश्च प्रगतेः समीक्षा कृता।

केन्द्रीयमन्त्री गडकरी उक्तवान् यत् अहमदाबाद धोलेरा द्रुतमार्गस्य भावनगरपर्यन्तं विस्तारकार्यं आगामिषु त्रिषु मासेषु प्रारप्स्यते। सः राज्यशासनम् अपि अनुरोधितवान् यत् केन्द्रीयमार्गावसंरचनानिधेः सीआरआईएफ इत्यस्य अन्तर्गतं राष्ट्रियराजमार्गपरियोजनानां प्रस्तावाः शीघ्रं केन्द्रशासनाय प्रेष्यन्ताम्।

गडकरी डीपीआर इत्यस्य निर्माणकाले मार्गसंरेखणे आगच्छन्त्याः भूमेः अधिग्रहणं सरलीकर्तुं गैरकृषि एनए अनुमतेः प्रक्रियां षष्टिदिनपर्यन्तं स्थगितां स्थापयितुं गुजरातशासनस्य व्यवस्थां प्रशंसितवान्। सः उक्तवान् यत् एतत् गुजरातप्रतिरूपं सम्पूर्णदेशाय अनुकरणीयं भवितुं शक्नोति।

सः प्रधानमन्त्रिणः नरेन्द्र मोदिनः इत्यस्य पर्यावरणानुकूलविकासदृष्टेः उल्लेखं कुर्वन् निर्देशं दत्तवान् यत् मार्गविस्तारीकरणकाले मार्गे विद्यमानान् वृक्षान् छेत्तुं स्थाने तान् तस्यैव मार्गस्य पार्श्वे अन्यत्र प्रतिरोपयित्वा विकासस्य पर्यावरणसंरक्षणस्य च मध्ये सन्तुलनं सुनिश्चितं क्रियताम्।

मुख्यमन्त्री भूपेन्द्र पटेलः उक्तवान् यत् राज्यशासनस्य विभिन्नविभागानां मध्ये उत्तमसमन्वयस्य कारणेन भूम्यधिग्रहणसहितासु मार्गावसंरचनापरियोजनासु गतिः वर्धिता अस्ति। सः पालनपुर सामाखियालीमार्गिकायाः निर्माणकार्ये अधिकां तीव्रताम् आनेतुम् अपि आग्रहं कृतवान्।

उपवेशने राज्यशासनस्य राष्ट्रियराजमार्गप्राधिकरणस्य एनएचएआई इत्यस्य च वरिष्ठाधिकारिभिः सह राजस्व वनपर्यावरण सामान्यप्रशासन मार्गभवनविभागानां बहवः अधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani