Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 जुलाईमासः(हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी निःस्वार्थसेवायाः, लोककल्याणस्य समर्पणभावस्य च महत्त्वं प्रतिपादयन् अद्य एक्स इति सामाजिकमाध्यमे सुभाषितं साझा कृतवान्। सः उक्तवान् यत् निःस्वार्थभावेन कृतं कर्म एव मानवतायाः महत्तमा शक्तिः अस्ति तथा च अनेनैव सेवाभावेन देशः प्रत्येकस्य नागरिकस्य जीवनं श्रेष्ठतरं कर्तुं सङ्कल्पपूर्वकम् अग्रे गच्छति।
सुभाषितम् एवमस्ति यत्
“हितं यत्सर्वभूतानामात्मानश्च सुखावहम्।
तत्कुर्यादीश्वरे ह्येतन्मूलं सर्वार्थसिद्धये।।”
अस्य अर्थः अस्ति यत् मनुष्येण तदेव कर्म कर्तव्यं यत् सर्वेषां प्राणिनां हितकरं भवेत् तथा च येन तस्य आत्मनः सुखं शान्तिश्च प्राप्येताम्। एतदेव ईश्वरं प्रति सत्यं समर्पणम् अस्ति तथा च सर्वविधसफलतायाः आध्यात्मिकसिद्धेश्च मूलाधारः अस्ति।
प्रधानमन्त्री उक्तवान्, “निःस्वार्थकर्म एव मानवतायाः महत्तमा शक्तिः अस्ति। वयं सेवायाः समर्पणस्य च अनेनैव भावेन प्रत्येकस्य जीवनं श्रेष्ठतरं कर्तुं सङ्कल्पं स्वीकृत्य अग्रे गच्छामः।”
---------------
Hindusthan Samachar / Dheeraj Maithani