प्रधानमंत्री मोदी स्वयात्रायाः तृतीये चरणे न्यूूजीलैंडं प्राप्नोत्, विमानपत्तनके प्रधानमंत्रिणा लक्सनेन कृतं स्वागतम्
नवदिल्ली, 10 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी स्वयात्रायाः तृतीयचरणे शुक्रवासरे न्यूजीलैण्डदेशस्य आकलैण्डनगरं प्राप्तवान् यत्र विमानस्थानके प्रधानमन्त्री क्रिस्टोफर लक्सनः निर्धारितशिष्टाचारपरम्पराम् अतिक्रम्य तस्य स्वागतं कृतवान्। प्र
ऑकलैंड में प्रधानमंत्री मोदी का स्वागत करते प्रधानमंत्री लक्सन


नवदिल्ली, 10 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी स्वयात्रायाः तृतीयचरणे शुक्रवासरे न्यूजीलैण्डदेशस्य आकलैण्डनगरं प्राप्तवान् यत्र विमानस्थानके प्रधानमन्त्री क्रिस्टोफर लक्सनः निर्धारितशिष्टाचारपरम्पराम् अतिक्रम्य तस्य स्वागतं कृतवान्। प्रधानमन्त्री स्वस्य अग्रिमगन्तव्यस्थानं प्राप्तस्य सूचनाम् एक्स इत्यत्र प्रसारितवान्।

सः सूचितवान् यत् किञ्चित्कालपूर्वम् अहम् आकलैण्डनगरं प्राप्तवान्। विमानस्थानके स्वागतार्थं प्रधानमन्त्रिणे लक्सनाय कृतज्ञः अस्मि। एषा यात्रा ऐतिहासिकी अस्ति यतः चतुर्षु दशकेषु प्रथमवारम् अस्ति यदा कश्चित् भारतीयप्रधानमन्त्री न्यूजीलैण्डदेशस्य यात्रां करोति। अहं प्रधानमन्त्रिणा लक्सनेन सह वार्तालापं कर्तुं भारत न्यूजीलैण्डमैत्र्याः सर्वेषु पक्षेषु चर्चां कर्तुं च उत्सुकः अस्मि। अहं श्वः आकलैण्डनगरे सामुदायिककार्यक्रमम् अपि सम्बोधयिष्यामि।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री देशद्वयस्य यात्रां कृत्वा द्विदिवसीयाधिकारिकयात्रार्थम् आकलैण्डनगरं प्राप्तवान्। एषा चतुर्षु दशकेषु कस्यचित् भारतीयप्रधानमन्त्रिणः प्रथमा न्यूजीलैण्डदेशस्य आधिकारिकयात्रा अस्ति। आकलैण्डनगरे सः प्रधानमन्त्रिणा लक्सनेन सह द्विपक्षीयचर्चां करिष्यति तथा सम्बन्धानां सर्वेषां पक्षाणां समीक्षां करिष्यति। समीक्षायां गतयोः वर्षयोः व्यापार वाणिज्य रक्षाक्षेत्रेषु जाता महत्त्वपूर्णा प्रगतिः अपि समाविष्टा भविष्यति।

आकलैण्डनगरे स्वप्रवासकाले प्रधानमन्त्री प्रमुखैः व्यापारजगतः क्रीडाजगतश्च व्यक्तिभिः सह अपि वार्तालापं करिष्यति। तेन सह प्रधानमन्त्री अस्याः यात्रायाः समये प्रवासिभारतीयानां सभाम् अपि सम्बोधयिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani