उत्तरप्रदेश-माध्यमिक-शिक्षा-परिषदः कार्यशालायां सहभागिभिः अध्यायानुसारिणी रूपरेखा निर्मिता : रक्षा श्रीवास्तवा
प्रयागराजनगरम्, १० जुलाईमासः (हि.स.)। राज्यस्य नूतन-पाठ्यचर्यां अधिक-प्रभावकारिणीं, समावेशिनीं तथा स्थानीय-आवश्यकतानुरूपां विकसितुं आयोजिता एषा पञ्च-दिवसीया कार्यशाला महत्त्वपूर्णं पदक्षेपं मन्यते इति परिषदः उपसचिवा रक्षा श्रीवास्तवा शुक्रवासरे समा
उत्तर प्रदेश माध्यमिक शिक्षा परिषद की पांच दिवसीय कार्यशाला के समापन का छाया चित्र


प्रयागराजनगरम्, १० जुलाईमासः (हि.स.)। राज्यस्य नूतन-पाठ्यचर्यां अधिक-प्रभावकारिणीं, समावेशिनीं तथा स्थानीय-आवश्यकतानुरूपां विकसितुं आयोजिता एषा पञ्च-दिवसीया कार्यशाला महत्त्वपूर्णं पदक्षेपं मन्यते इति परिषदः उपसचिवा रक्षा श्रीवास्तवा शुक्रवासरे समापनावसरे अवदत्।

उत्तरप्रदेश-माध्यमिक-शिक्षा-परिषदा राज्य-पाठ्यचर्या-रूपरेखाया विकासस्य उद्देश्येन आयोजितायाः पञ्च-दिवसीय-कार्यशालायाः शुक्रवासरे सफलतया समापनम् अभवत्। एषा कार्यशाला ६ जुलाई-दिनाङ्कात् आरब्धा आसीत्।

कार्यशालायाः सञ्चालनं परिषदः सचिवः भगवतीसिंहः, अपरसचिवः सत्येन्द्र-कुमारसिंहः तथा अपरसचिवः स्कन्दशुक्लः इत्येतयोः मार्गदर्शने निर्देशनस्य च अधीनम् अभवत्।

समापन-दिवसे सर्वे विषय-समूहाः एनसीएफएसई-मानकानुरूपं स्व-स्व-अध्यायानां सम्बन्धिनीं रूपरेखां निर्मितवन्तः। अस्यां रूपरेखायां अध्यायानुसारं पाठ्यवस्तु चिन्हिता सुव्यवस्थिता च अभवत्, येन अग्रिमेषु चरणेषु सहभागी-समूहाः उत्तरप्रदेशस्य विशेष-सन्दर्भान् ध्याने निधाय अध्यायानां पुनर्लेखनं करिष्यन्ति।

कार्यशालायाः समापनावसरे परिषदः उपसचिवा रक्षा श्रीवास्तवा सर्वेषां सहभागिनां कार्यस्य प्रशंसां कृत्वा तेषां योगदानस्य अभिनन्दनम् अकरोत् तथा सफल-आयोजनाय सर्वेभ्यः कृतज्ञतां प्रकटितवती।

Hindusthan Samachar / Divya Ranjan