योगिसर्वकारः अन्यपश्चाद्वर्गीययुवभ्यः सुवर्णावसरं ददाति, निःशुल्क-ओ-लेवल तथा सीसीसी-सङ्गणकप्रशिक्षणाय आवेदनप्रक्रिया आरब्धा
प्रयागराजनगरम्, १० जुलाईमासः (हि.स.)। योगिसर्वकारः अन्यपृष्ठवर्गस्य बेरोजगार-युवकयुवतीनां डिजिटल-क्षेत्रे सशक्ती-करणाय तथा उत्तमान् रोजगारावसरान् प्रदातुं २०२६–२७ वित्तवर्षस्य निःशुल्क-ओ-लेवल तथा सीसीसी-सङ्गणक-प्रशिक्षणयोजनायाः अन्तर्गतं अन्तर्जाल-
योगी सरकार ओबीसी वर्ग के युवाओं को कम्प्यूटर सीखने का सुनहरा मौका


प्रयागराजनगरम्, १० जुलाईमासः (हि.स.)। योगिसर्वकारः अन्यपृष्ठवर्गस्य बेरोजगार-युवकयुवतीनां डिजिटल-क्षेत्रे सशक्ती-करणाय तथा उत्तमान् रोजगारावसरान् प्रदातुं २०२६–२७ वित्तवर्षस्य निःशुल्क-ओ-लेवल तथा सीसीसी-सङ्गणक-प्रशिक्षणयोजनायाः अन्तर्गतं अन्तर्जाल-आवेदनानि आमन्त्रितवान्। इच्छुकाः अभ्यर्थिनः २० जुलाई, २०२६ दिनाङ्कपर्यन्तम् आवेदनं कर्तुं शक्नुवन्ति। एषा सूचना शुक्रवासरे जनपदस्य पृष्ठवर्गकल्याणाधिकारी कोमिलद्विवेदी महोदयेन प्रदत्ता।

ते अवदन् यत् अस्याः योजनायाः लाभः नगरग्रामीणक्षेत्रयोः पात्राभ्यर्थिभ्यः प्रदास्यते। आवेदनार्थं परिवारस्य वार्षिकमायः एकलक्षरूप्यकात् अधिका न भवेत्। आयप्रमाणपत्रं जातिप्रमाणपत्रं च तहसीलस्तरेण निर्गतं भवितुम् आवश्यकम्। अभ्यर्थिनः न्यूनतमा शैक्षिक-योग्यता इण्टरमीडिएट् भवेत् तथा अधिकतमा आयुः ३५ वर्षाणि निर्धारितानि अस्ति।

ते पुनरपि अवदन् यत् इच्छुकाः अभ्यर्थिनः पृष्ठवर्गकल्याणविभागस्य जालपुटे अन्तर्जाल-माध्यमेन आवेदनं कर्तुं शक्नुवन्ति। आवेदनस्य अनन्तरं तस्य मुद्रितप्रतिः आयप्रमाणपत्रेण, जातिप्रमाण-पत्रेण, आधारपत्रेण, शैक्षिक-प्रमाणपत्रैः च सह अन्यैः आवश्यकाभिलेखैः सहितं जनपदपृष्ठ-वर्गकल्याणाधिकारी-कार्यालये, कक्षसंख्या–६५, विकासभवने, प्रयागराजे २० जुलाई, २०२६ दिनाङ्के सायं ५ वादनपर्यन्तम् अनिवार्यतया समर्पणीयम्।

आवेदनं कुत्र कथं च करणीयम्

www.msme.up.gov.in इति पटले आधारपत्रं, धनागार-पासबुक्, शैक्षिक-प्रमाणपत्राणि, जातिप्रमाणपत्रम्, निवास-प्रमाणपत्रम्, अनुभवप्रमाणपत्रं इत्येतै: च सहितानि सर्वाणि आवश्यक-प्रपत्राणि उपस्थाप्य अन्तर्जाल-आवेदनं करणीयम्।

जनपदपृष्ठवर्गकल्याणाधिकारिणा पात्रयुवकयुवतीभ्यः समये आवेदनं कर्तुम् आह्वानं कृतम्। तेन उक्तं यत् एषा योजना युवभ्यः सङ्गणककौशलं प्रदाय तान् रोजगार-स्वरोजगारयोः उत्तमावसरैः संयोजयितुं महत्त्वपूर्ण: प्रयत्न: अस्ति।

Hindusthan Samachar / Divya Ranjan