उत्तर रेलवेसंभागस्य 680 मार्गे किलोमीटरमिते 206 कोटि रुप्यकाणां व्ययेन प्रयोक्ष्यते ‘कवच 4.0’ इत्येषा प्रणाली
नव दिल्ली, 10 जुलाईमासः(हि.स.)। भारतीयरेलवे रेलसुरक्षां अधिकं सुदृढां कर्तुं महत्त्वपूर्णं पदक्षेपं कुर्वन् उत्तररेलवे इत्यस्य दिल्लीमण्डलस्य रेवाडी दिल्ली तथा शकूरबस्ती बठिण्डा रेलखण्डयोः ताभ्यां सम्बद्धासु फीडरशाखामार्गेषु च आहत्य षडशीत्यधिकषट्
उत्तर रेलवेसंभागस्य 680 मार्गे किलोमीटरमिते 206 कोटि रुप्यकाणां व्ययेन प्रयोक्ष्यते ‘कवच 4.0’ इत्येषा प्रणाली


नव दिल्ली, 10 जुलाईमासः(हि.स.)।

भारतीयरेलवे रेलसुरक्षां अधिकं सुदृढां कर्तुं महत्त्वपूर्णं पदक्षेपं कुर्वन् उत्तररेलवे इत्यस्य दिल्लीमण्डलस्य रेवाडी दिल्ली तथा शकूरबस्ती बठिण्डा रेलखण्डयोः ताभ्यां सम्बद्धासु फीडरशाखामार्गेषु च आहत्य षडशीत्यधिकषट्शतरूटकिलोमीटरपरिमिते मार्गे स्वदेशीयां स्वचालितरेलसुरक्षाप्रणालीं कवच संस्करण चत्वारि इति स्थापयितुम् अनुमोदनं दत्तवान्। अस्यां परियोजनायां षडधिकद्विशतकोटिरूप्यकाणां व्ययः भविष्यति।

रेलमन्त्रालयेन शुक्रवासरे सूचितं यत् एषा परियोजना भारतीयरेलवे इत्यस्य कवचप्रणालीं सम्पूर्णदेशे कार्यान्वितुं प्रचलितायाः योजनायाः भागः अस्ति। अस्याः उद्देश्यं अधिकयातायातयुक्तेषु रणनीतिकदृष्ट्या महत्त्वपूर्णेषु च रेलमार्गेषु अस्याः स्वदेशीयसुरक्षाप्रणाल्याः विस्तारः अस्ति। अस्याः माध्यमेन आधुनिकप्रौद्योगिक्या रेलसुरक्षा अधिकं सुदृढा भविष्यति।

उल्लेखनीयम् अस्ति यत् कवच भारतदेशे विकसिता स्वदेशीया स्वचालितरेलसुरक्षाप्रणाली अस्ति। अस्याः उद्देश्यं संकटसूचकसङ्केतस्य उल्लङ्घनघटनानां रेलयानसंघट्टानां च निवारणम् अस्ति। एषा प्रणाली रेलयानानां गतागते निरन्तरं निरीक्षणं करोति तथा आवश्यकतायां स्वतः गतिरोधकं प्रयुज्य दुर्घटनासम्भावनां न्यूनीकरोति।

मन्त्रालयेन उक्तं यत् रेवाडी दिल्ली तथा शकूरबस्ती बठिण्डा रेलखण्डयोः कवच संस्करण चत्वारि इत्यस्य स्थापनया रेलसुरक्षायां उल्लेखनीयः सुधारः भविष्यति। अनेन सह परिचालनदक्षता वर्धिष्यते रेलयानसञ्चालनस्य विश्वसनीयता सुदृढा भविष्यति तथा यात्रिवाहकरेलयानानां मालवाहकरेलयानानां च सञ्चालनं अधिकं द्रुतं सुरक्षितं प्रौद्योगिक्याधारितं च भवितुं शक्नोति।

---------------

Hindusthan Samachar / Dheeraj Maithani