कर्नाटकस्य बेलगाव्यां राष्ट्रिय स्वयंसेवक संघस्य अखिलभारतीयप्रांत प्रचारकोपवेशनस्य शुभारंभः
बेलगावी, 10 जुलाईमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य वार्षिकम् अखिलभारतीयप्रान्तप्रचारकोपवेशनं कर्णाटकस्य बेलगावीनगरे शुक्रवासरे प्रातः आरब्धम्। त्रिदिवसीये अस्मिन् उपवेशने सङ्घकार्यस्य विस्तारम् आगामियोजनाश्च अधिकृत्य अनेकमुख्यविषयेषु विस्तर
संघ के सरसंघचालक डा. मोहन भागवत


कर्नाटक के बेलगावी में चल रही राष्ट्रीय स्वयंसेवक संघ की तीन दिवसीय अ.भा. प्रांत प्रचारक बैठक में भाग लेते प्रतिनिधि।


बेलगावी, 10 जुलाईमासः (हि.स.)।

राष्ट्रियस्वयंसेवकसङ्घस्य वार्षिकम् अखिलभारतीयप्रान्तप्रचारकोपवेशनं कर्णाटकस्य बेलगावीनगरे शुक्रवासरे प्रातः आरब्धम्। त्रिदिवसीये अस्मिन् उपवेशने सङ्घकार्यस्य विस्तारम् आगामियोजनाश्च अधिकृत्य अनेकमुख्यविषयेषु विस्तरेण चर्चा करिष्यते।

सङ्घस्य प्रचारविभागस्य अनुसारं त्रिदिवसीये अस्मिन् उपवेशने सरसङ्घचालकः डॉ. मोहन भागवत, सरकार्यवाहः दत्तात्रेय होसबाले, सर्वे सहसरकार्यवाहाः, अखिलभारतीयकार्यविभागप्रमुखाः, सहप्रमुखाः, कार्यकारिणीसदस्याः, क्षेत्रप्रचारकाः, सहक्षेत्रप्रचारकाः तथा सर्वेषां ४६ प्रान्तानां प्रान्तप्रचारकाः, सहप्रान्तप्रचारकाः सङ्घप्रेरितविविधसङ्गठनानाम् अखिलभारतीयसङ्गठनमन्त्रिणश्च भागं गृह्णन्ति।

उपवेशने सङ्घकार्यस्य विस्तारम् आगामियोजनाश्च अधिकृत्य अनेकमुख्यविषयेषु विस्तरेण चर्चा करिष्यते। अस्मिन् २०२६ तमस्य वर्षस्य मार्चमासानन्तरं सङ्घस्य विभिन्नस्तरेषु सम्पन्नानां प्रशिक्षणवर्गाणां वृत्तान्तः तथा शाखास्तरे कार्ययोजनायाः क्रियान्वयनदृष्ट्या विस्तृतचर्चा करिष्यते। सङ्घशताब्दीनिमित्तं कृतस्य शाखाकार्यविस्तारस्य समीक्षा तथा आगामिन्याः अधिकतमशाखाविस्तारयोजनायाः विषये अपि चर्चा भविष्यति।

एतदतिरिक्तं शताब्दीवर्षे सम्पन्नानां कार्यक्रमाणां समीक्षा, निर्धारितानां शेषकार्यक्रमाणां योजना तथा सरसङ्घचालकस्य २०२६ २७ तमवर्षस्य प्रवासयोजना इत्यादिषु विषयेषु चर्चा करिष्यते। सङ्घशताब्दीवर्षस्य २०२५ २६ तमवर्षस्य शेषकार्यक्रमाः आगामिविजयादशमीपर्यन्तं अर्थात् अक्टोबरमासस्य २० दिनाङ्कपर्यन्तं प्रचलिष्यन्ति।----------

Hindusthan Samachar / Dheeraj Maithani