Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 जुलाईमासः (हि.स.)।क्रीडकानां कृते विश्वस्तरीयक्रीडाचिकित्सास्वास्थ्यसेवानाम् उपलब्धतां सुनिश्चितकर्तुं सफदरजंग चिकित्सालयस्य स्पोर्ट्स इंजरी सेन्टर इति केन्द्रेण भारतीयक्रीडाप्राधिकरणेन च शुक्रवासरे सहमतिज्ञापने हस्ताक्षराणि कृतानि। अस्य सहमतिज्ञापनस्य अन्तर्गतं संस्थाद्वयं क्रीडाक्षतिनिवारणस्य उपचारस्य पुनर्वासस्य क्रीडाविज्ञानस्य अनुसन्धानस्य प्रशिक्षणस्य च क्षेत्रेषु संयुक्तरूपेण कार्यं करिष्यति।
सहमतिज्ञापने हस्ताक्षराणि केन्द्रीयस्वास्थ्यसचिवायाः पुण्य सलीला श्रीवास्तव इत्यस्याः युवकार्यक्रमक्रीडामन्त्रालयस्य क्रीडाविभागसचिवस्य हरि रंजन राव इत्यस्य च उपस्थितौ अभवन्। अस्याः सहभागितायाः उद्देश्यं भारतीयक्रीडकानां भारतीयक्रीडाप्राधिकरणसम्बद्धसहयोगिकर्मचारिणां च कृते समन्वितं विश्वस्तरीयं च स्वास्थ्यसेवातन्त्रं विकसितुं वर्तते।
सहमतिज्ञापनस्य अन्तर्गतं स्पोर्ट्स इंजरी सेन्टर इति केन्द्रस्य विशेषज्ञचिकित्सासेवाः भारतीयक्रीडाप्राधिकरणस्य व्यापकक्रीडकसञ्जालेन सह संयोज्य क्रीडकेभ्यः क्रीडाक्षतिनिवारणं समयोचितपरीक्षणम् आधुनिकोपचारं पुनर्वासं क्रीडाविज्ञानाधारितसहायतां च प्रदास्यते। एतदतिरिक्तं संस्थाद्वयं क्रीडाचिकित्सायाः चिकित्साशिक्षायाः क्षमतानिर्माणस्य प्रशिक्षणस्य अनुसन्धानस्य च क्षेत्रेष्वपि संयुक्तरूपेण कार्यं करिष्यति। क्रीडकानाम् आवश्यकतानुरूपोपचारप्रणालीनां विकासे क्षतिनिवारणस्य नवीनरणनीतीनां निर्माणे प्रमाणाधारितक्रीडाचिकित्सायाः प्रोत्साहने च विशेषं बलं प्रदास्यते।
अस्मिन् अवसरे केन्द्रीयस्वास्थ्यसचिवा पुण्य सलीला श्रीवास्तव अवदत् यत् एतत् सहमतिज्ञापनं स्वास्थ्यक्रीडाक्षेत्रयोर्मध्ये दीर्घकालिकसहभागितायाः आरम्भः अस्ति। सा अवदत् यत् क्रीडकेभ्यः श्रेष्ठस्वास्थ्यसुविधाः प्रदातुं स्वास्थ्यमन्त्रालयः सर्वविधं सहयोगं प्रदास्यति। सा देशव्यापिरूपेण क्रीडाचिकित्सासुविधानां विस्तारस्य स्पोर्ट्स मेडिसिन इति विषये स्नातकोत्तरशिक्षायाः सुदृढीकरणस्य नूतनेषु एम्स संस्थानेष्वपि क्रीडाचिकित्सासुविधानां विकासस्य च आवश्यकतायां बलं दत्तवती। सा अवदत् यत् क्रीडकानाम् आवश्यकतानुरूपानुसन्धानमपि प्राथमिकतया स्वीकरिष्यते।
क्रीडाविभागस्य सचिवः हरि रंजन राव अवदत् यत् क्रीडाचिकित्सायाः क्रीडाविज्ञानस्य च क्षेत्रे भारतीयक्रीडकानां शारीरिकसंरचनायाः आवश्यकतानां च अनुरूपं स्वदेशीयानुसन्धानं प्रोत्साहयितुं वर्तमानसमयस्य आवश्यकता अस्ति। सः अवदत् यत् सम्प्रति अनेकाः उपचारप्रणाल्यः वैज्ञानिकमानकाश्च पाश्चात्त्यदेशानाम् आकडाधारिताः सन्ति ये भारतीयक्रीडकानां कृते पूर्णतया उपयुक्ताः न भवितुम् अर्हन्ति। अतः भारतकेन्द्रितवैज्ञानिकानुसन्धानस्य उपचारप्रणाल्याश्च विकासः आवश्यकः अस्ति।
सःपरामर्शं दत्तवान् यत् भारतीयक्रीडाप्राधिकरणस्य उत्कृष्टताकेन्द्राणि समीपवर्तिभिः चिकित्सामहाविद्यालयैः सह संयोजनीयानि येन क्रीडकेभ्यः विशेषज्ञचिकित्सासहायतायाः अनुसन्धानस्य प्रशिक्षणस्य च लाभः प्राप्येत।
कार्यक्रमे स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य युवकार्यक्रमक्रीडामन्त्रालयस्य सफदरजंग चिकित्सालयस्य स्पोर्ट्स इंजरी सेन्टर इति केन्द्रस्य भारतीयक्रीडाप्राधिकरणस्य च वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।
-----------
Hindusthan Samachar / Dheeraj Maithani