Enter your Email Address to subscribe to our newsletters

पटना, 10 जुलाईमासः (हि.स.)।
चीने आयोजितायाम् एशियाई २३ वर्षाधः एथलेटिक्स् प्रतियोगितायां २०२६ भारतीयेन ४x४०० मीटर् मिश्रितरिले-दले आयोजकं चीनदेशं पराजित्य स्वर्णपदकं विजितम् अस्ति।
अस्याः ऐतिहासिकसफलतायाः प्रमुखः नायकः बिहारस्य मोतिहारीजनपदस्य क्रीडकः सेतु मिश्रा आसीत्, येन अन्तिमस्पर्धायां समापकधावकस्य महत्त्वपूर्णा भूमिका निर्व्यूढा।
सेतु मिश्रा स्वस्य अद्भुतवेगस्य उत्कृष्टाभ्यासस्य च प्रभावपूर्णं प्रदर्शनं कुर्वन् चीनदेशीयधावकानां कठिनां चुनौतीं निष्फलां कृतवान् तथा सर्वप्रथमं समापनरेखां पारयित्वा देशाय स्वर्णिमसफलतां प्राप्तवान्।
अस्याः गौरवपूर्णोपलब्धेः कारणेन क्रीडाजगति उत्साहः वर्तते। बिहारराज्य एथलेटिक्स् सङ्घस्य अध्यक्षः सलीम परवेजः अभिनन्दनं प्रकटयन् एतां सम्पूर्णस्य बिहारस्य कृते महतीम् उपलब्धिं कथितवान्।
तथैव बिहारराज्यक्रीडाप्राधिकरणस्य महानिदेशकः रवींद्रन शंकरणः, एथलेटिक्स् सङ्घस्य सचिवः लियाकत अली तथा सर्वे जनपदाधिकारिणः देशस्य राज्यस्य च गौरवं वर्धयितुं सेतु मिश्रा इत्यस्मै अभिनन्दनं प्रदत्तवन्तः उज्ज्वलभविष्याय शुभकामनाश्च प्रकटितवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani