तमिलनाडौ 17 अगस्ततः प्रापस्यते 'कहीं भी पंजीकरणमित्येषा' ऑनलाइन प्रणाली
चेन्नई, 10 जुलाईमासः (हि.स.)। तमिलनाडुसर्वकारेण राज्ये सम्पत्तिपञ्जीकरणप्रक्रियां पूर्णतया अङ्कीयां कर्तुं महत्त्वपूर्णं पदक्षेपं कुर्वता ‘यत्रकुत्रापि पञ्जीकरणम्’ इति ऑनलाइनव्यवस्थां प्रवर्तयितुं निर्णयः कृतः अस्ति। नूतना व्यवस्था २०२६ तमस्य वर्षस
कहीं भी पंजीकरण**('Anywhere Registration)


चेन्नई, 10 जुलाईमासः (हि.स.)। तमिलनाडुसर्वकारेण राज्ये सम्पत्तिपञ्जीकरणप्रक्रियां पूर्णतया अङ्कीयां कर्तुं महत्त्वपूर्णं पदक्षेपं कुर्वता ‘यत्रकुत्रापि पञ्जीकरणम्’ इति ऑनलाइनव्यवस्थां प्रवर्तयितुं निर्णयः कृतः अस्ति। नूतना व्यवस्था २०२६ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्कात् प्रभाविणी भविष्यति। अस्याः प्रवर्तनानन्तरं नागरिकाः राज्यस्य कस्मादपि स्थानात् ऑनलाइनमाध्यमेन सम्पत्तिपञ्जीकरणप्रक्रियां पूर्णां कर्तुं शक्ष्यन्ति तथा च कस्यचित् विशिष्टस्य उपपञ्जीकारकार्यालयस्य गमनम् अनिवार्यं न भविष्यति।

राज्यस्य वाणिज्यकरपञ्जीकरणमन्त्री डी. लोगेश तमिलसेल्वन इत्यस्य अध्यक्षतायाम् आयोजिते विभागीयसमीक्षोपवेशने एतत्सम्बद्धः निर्णयः कृतः। उपवेशने नूतनव्यवस्थायाः तान्त्रिकप्रशासनिकविधिकपक्षाणां समीक्षा कृता तथा च अस्याः क्रियान्वयनसम्बद्धानां सज्जतानां परीक्षणं कृतम्।

नूतनव्यवस्थायाः अन्तर्गतं आवेदकाः चतुर्विंशतिहोरापर्यन्तम् ऑनलाइनमाध्यमेन अभिलेखान् अपलोड् कर्तुं शक्ष्यन्ति। अभिलेखानां परीक्षणं, पञ्जीकरणशुल्कस्य भुगतानं तथा अन्याः आवश्यकाः औपचारिकताः अङ्कीयमाध्यमेन पूर्णाः करिष्यन्ते। पञ्जीकरणस्य सम्पूर्णप्रक्रियायाः स्थितिरपि ऑनलाइनमाध्यमेन द्रष्टुं शक्या भविष्यति।

सर्वकारेण स्पष्टीकृतं यत् प्रारम्भिकचरणे एषा सुविधा केवलं भूखण्डस्य प्रथमविक्रयस्य तथा नूतनगृहखण्डस्य प्रथमविक्रयस्य प्रकरणेषु प्रवर्तिष्यते। पश्चात् व्यवस्थायाः अनुभवस्य आवश्यकतायाश्च आधारेण एषा अन्यविधसम्पत्तिव्यवहारेषु अपि विस्तारयितुं शक्यते।

नूतनव्यवस्थायाः कृते उपयोक्तृभ्यः प्रवेशपरिचयः प्रदास्यते। अस्य माध्यमेन अभिलेखानाम् अपलोड् करणस्य, जैवमितीयसत्यापनस्य, शुल्कस्य ऑनलाइनभुगतानस्य तथा पञ्जीकरणसमाप्त्यनन्तरम् अङ्कीयाभिलेखानाम् अवतारणस्य सुविधा प्राप्स्यते। सर्वकारस्य अनुसारम् अङ्कीयरीत्या निर्गतेभ्यः अभिलेखेभ्यः वैधानिकी मान्यता भविष्यति।

सर्वकारेण उक्तं यत् अस्याः सुविधायाः उपयोगाय आवेदकानां समीपे उच्चवेगयुक्तम् अन्तर्जालसम्पर्कं सह सर्वकारानुमोदितम् एल् ० तथा एल् १ अङ्गुलिचिह्नपरीक्षणयन्त्रं नेत्रताराग्रहणयन्त्रं च आवश्यकं भविष्यति। एतेषां यन्त्राणां माध्यमेन जैवमितीयसत्यापनं करिष्यते।

उपयोक्तॄणां साहाय्यार्थं विशेषसहायताकेन्द्राण्यपि स्थापयिष्यन्ते, यत्र तान्त्रिकप्रक्रियागतसमस्यानां समाधानम् उपलभ्यते। सहैव नूतनव्यवस्थायाः उपयोगसम्बन्धि आवश्यकं मार्गदर्शनमपि प्रदास्यते।

समीक्षोपवेशने मन्त्री डी. लोगेश तमिलसेल्वन उक्तवान् यत् राज्यसर्वकारः पञ्जीकरणविभागे प्रौद्योगिकीमूलकपरिष्काराणां कृते निरन्तरं कार्यं कुर्वन् अस्ति। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् नागरिकानां परिवेदनानां त्वरितं निराकरणं सुनिश्चितं क्रियताम् तथा च पञ्जीकरणसम्बद्धाः अभिलेखाः यथासम्भवं तस्मिन्नेव दिने उपलभ्यन्ताम्।

सर्वकारस्य कथनम् अस्ति यत् नूतनव्यवस्थायाः प्रवर्तनानन्तरं पञ्जीकरणकार्यालयेषु जनसम्मर्दः न्यूनः भविष्यति, विभिन्नकार्यालयानां मध्ये कार्यभारस्य श्रेष्ठतरं वितरणं सम्भविष्यति तथा च लम्बितप्रकरणानां निराकरणे अपि तीव्रता आगमिष्यति।-------------

Hindusthan Samachar / Dheeraj Maithani