Enter your Email Address to subscribe to our newsletters

करूरम्, 10 जुलाईमासः (हि.स.)। तमिलनाडुराज्यस्य मुख्यमन्त्री तथा तमिलगा वेत्रि कडगम टीवीके इत्यस्य अध्यक्षः जोसेफ विजयः शुक्रवासरे करूरनगरे गतवर्षे निर्वाचनप्रचारसभायाः समये जातायां जनसम्मर्ददुर्घटनायां प्राणान् त्यक्तवतां द्वात्रिंशत् जनानां परिवाराणाम् एकैकस्मै सदस्याय तेषां शैक्षणिकयोग्यतानुसारं शासकीयसेवायाः नियुक्तिपत्राणि प्रदत्तवान्। करूरस्य एटलसप्राङ्गणे आयोजिते कार्यक्रमे बहुसंख्यकाः दलकार्यकर्तारः मृतकानां परिजनाः स्थानीयजनाश्च उपस्थिताः आसन्।
जोसेफ विजयः तिरुचिरापल्लीविमानस्थानकात् मार्गेण करूरं प्राप्तवान्। मार्गे विभिन्नेषु स्थलेषु दलकार्यकर्तृभिः तस्य स्वागतं कृतम्। नियुक्तिपत्राणि वितीर्य सः करूरजनसम्मर्ददुर्घटनां स्वस्य सार्वजनिकजीवनस्य अत्यन्तदुःखदघटनासु अन्यतमां वर्णयन् मृतकानां परिजनान् प्रति संवेदनां प्रकटितवान्।
स्वसम्बोधने विजयः उक्तवान् यत् करूरस्य घटना तस्य जीवनस्य गहनतमः व्रणः अस्ति तथा सा कदापि विस्मर्तुं न शक्यते। सः उक्तवान् यत् केचन जनाः घटनासमये ततः निर्गमनस्य आरोपं तस्मिन् कृतवन्तः किन्तु तस्य कृते जनतायाः सुरक्षा सर्वोच्चा प्राथमिकता आसीत्।
विजयः उक्तवान् यत् मनुष्यः कियत् अपि उच्चस्थानं प्राप्नुयात् तथापि कानिचन दुःखानि केचन व्रणाश्च कदापि विस्मर्तुं न शक्यन्ते। मम जीवनस्य महत्तमं दुःखं गहनतमश्च व्रणः करूरस्य घटना अस्ति। सः उक्तवान् यत् केचन जनाः वदन्ति यत् तस्मिन् कठिनसमये अहं ततः निर्गतवान्। यदि मां पृच्छेत् यत् धनं महत्त्वपूर्णम् अथवा जनता तर्हि मम उत्तरं सर्वदा जनता एव भविष्यति।
मुख्यमन्त्री करूरपुलिसस्य भूमिकायाम् अपि प्रश्नान् उत्थापितवान्। सः आरोपितवान् यत् नामक्कलतः करूरं प्राप्यमाणाय तस्मै पुलिसेन किमपि पूर्वसूचनं न प्रदत्तम्। तस्य कथनम् आसीत् यत् यदि प्रशासनेन समये एव आवश्यकसूचना प्रदत्ता अभविष्यत् तर्हि कार्यक्रमः स्थगितः निरस्तः वा कर्तुं शक्येत तथा दुर्घटना निवारयितुं शक्येत। सः उक्तवान् यत् पेरम्बलूरतः अरियालूरं गच्छन् पुलिसेन पूर्वमेव सतर्कीकृतः आसीत् येन सः कार्यक्रमः स्थगितः किन्तु करूरप्रकरणे तथा न अभवत्।
सः करूरजनसम्मर्ददुर्घटनायाः निष्पक्षान्वेषणस्य आग्रहं कुर्वन् उक्तवान् यत् सम्पूर्णघटनाक्रमस्य सत्यं प्रकाशम् आगच्छेत् येन भविष्ये एतादृशीनां घटनानां पुनरावृत्तिः निवारयितुं शक्येत।
अपरत्र मृतकानां परिजनेभ्यः शासकीयसेवाप्रदानसम्बद्धे प्रकरणे मद्रास उच्चन्यायालयस्य मदुरैपीठे प्रस्तुतायाः याचिकायाः अपि शुक्रवासरे श्रवणम् अभवत्। न्यायालयेन अपि सम्बद्धपक्षेभ्यः अस्थायिशासकीयनियुक्तिं प्रदातुं निर्देशः दत्तः।
उल्लेखनीयम् अस्ति यत् टीवीके इत्यस्य पक्षतः सप्तविंशतितमे सितम्बरमासे द्विसहस्रपञ्चविंशतितमे वर्षे करूरनगरे आयोजितायाः निर्वाचनप्रचारसभायाः समये जातया जनसम्मर्ददुर्घटनया एकचत्वारिंशत् जनाः मृताः आसन्। प्रकरणस्य अन्वेषणं केन्द्रीयान्वेषणब्यूरो सीबीआई करोति। तस्मिन् समये दुर्घटनायां मृतानां परिजनेभ्यः तमिलनाडुशासनेन दश दश लक्षरूप्यकाणि तथा टीवीके इत्यस्य पक्षतः विंशति विंशति लक्षरूप्यकाणि आर्थिकसाहाय्यरूपेण पूर्वमेव प्रदत्तानि आसन्। अधुना द्वात्रिंशत् परिवाराणाम् एकैकस्मै सदस्याय शासकीयसेवायाः नियुक्तिपत्राणि अपि प्रदत्तानि सन्ति।-------------
Hindusthan Samachar / Dheeraj Maithani