Enter your Email Address to subscribe to our newsletters

– भूतपूर्व-सीडीएस-जनरल अनिल-चौहानेन सह पूर्वसैन्याधिकारिभिः महत्त्वपूर्णाः विचारा: प्रस्तुताः
देहरादूननगरम्, १० जुलाईमासः (हि.स.)। राज्यपालः लेफ्टिनेण्ट्-जनरल गुरमीतसिंहः (सेवानिवृत्तः) शुक्रवासरे लोकभवने भारत-हिमालयन-इण्टरनेशनल-स्ट्रेटेजिक-मञ्चस्य थिङ्क-टैङ्क इत्यस्य सदस्यैः सह राष्ट्रीय-वैश्विक-सुरक्षापरिदृश्यसम्बद्धेषु सामयिकविषयेषु चर्चाम् अकरोत्। अस्यां सभायां भूतपूर्व-चीफ-ऑफ-डिफेन्स-स्टाफ जनरल अनिलचौहानेन सह वरिष्ठाः निवृत्तसैन्याधिकारिणः विषय-विशेषज्ञाश्च सहभागिनः आसन्।
सभायां राष्ट्रीयसुरक्षा, सामरिकसमस्या:, सीमाप्रबन्धनम् तथा परिवर्तमान-वैश्विक-सुरक्षापरिदृश्यसम्बद्धेषु विविधविषयेषु विस्तृतं विचारमन्थनम् अभवत्। थिङ्क-टैङ्क इत्यस्य सदस्यैः स्वानुभवानां अध्ययनस्य च आधारेण राष्ट्रीयसुरक्षा-व्यवस्थां अधिकां सुदृढां कर्तुं सम्बन्धिनः विचारा: अपि प्रस्तुताः।
राज्यपालः अवदत् यत् राष्ट्रीयसुरक्षावत् महत्त्वपूर्णविषयेषु विशेषज्ञैः सह संवादः अत्यन्तम् उपयोगी भवति तथा तेन नीतिगतदृष्टिकोणस्य व्यापकता वर्धते। तेन उक्तं यत् अनुभवान्वितानां सैन्याधिकारिणां विशेषज्ञानां च विचाराः देशस्य सुरक्षासज्जतां अधिकां सुदृढां कर्तुं सहायका: भवन्ति।
सभायां लेफ्टिनेण्ट्-जनरल अजय-कुमारसिंहः (सेवानिवृत्तः), वाइस-एडमिरल ए. जी. थपलियालः (सेवानिवृत्तः), मेजर-जनरल अभयकार्की (सेवानिवृत्तः), ब्रिगेडियर सन्तोषनायरः (सेवानिवृत्तः), ब्रिगेडियर अनिलशर्मा (सेवानिवृत्तः), ए.वी.एम. अरविन्दवर्मा (सेवानिवृत्तः), कर्नल आर. एस. सिद्धू (सेवानिवृत्तः), राष्ट्रीय-जलसर्वेक्षण-कार्यालयस्य संयुक्तमुख्य-हाइड्रोग्राफरः कमोडोर जे. गुरुमणिः, संजीवचोपड़ा, प्रो. दुर्गेशपन्तः, अमनप्रीतसिंहः, डॉ. राज्यलक्ष्मी: तथा रविगडीराजू च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan