उत्तरप्रदेशस्य उरई-नगरे केन्द्रीयराज्यमन्त्रिणा एस.पी.बघेलेन महापुरुषाणां प्रतिमानाम् अनावरणं कृतम्
उरईनगरम्, १० जुलाईमासः (हि.स.)। केन्द्रीय-राज्यमन्त्री प्रोफेसर-एस.पी. बघेलः शुक्रवासरे जालौनम् अगच्छत्। उरई-नगरे सञ्चाल्यमानायाः जनसेवा-रसोई इत्यस्याः चतुर्वर्ष-पूर्णतायाः उपलक्ष्ये आयोजिते समारोहे सः मुख्यातिथिरूपेण सहभागी अभवत्। अस्मिन् अवसरे सम
कार्यक्रम को संबोधित करते मंत्रीगण


उरईनगरम्, १० जुलाईमासः (हि.स.)। केन्द्रीय-राज्यमन्त्री प्रोफेसर-एस.पी. बघेलः शुक्रवासरे जालौनम् अगच्छत्। उरई-नगरे सञ्चाल्यमानायाः जनसेवा-रसोई इत्यस्याः चतुर्वर्ष-पूर्णतायाः उपलक्ष्ये आयोजिते समारोहे सः मुख्यातिथिरूपेण सहभागी अभवत्। अस्मिन् अवसरे समाजसेवायाः, राष्ट्रनिर्माणस्य तथा महापुरुषाणाम् आदर्शानुसरणस्य सन्देशं दत्त्वा सः अवदत् यत् समाजस्य समर्थजनानां दायित्वं वर्तते यत् ते सामाजिक-आर्थिक-राजनीतिक-धार्मिक-क्षेत्रेषु स्वदायित्वानां प्रामाणिकतया निर्वहणं कुर्वन्तु। ते आवश्यकतायुक्तजनानां सेवां स्वकर्तव्यरूपेण मन्यन्ताम्।

कार्यक्रमम् सम्बोधयन् प्रोफेसर-एस.पी. बघेलः जनसेवा-पाकशालाया: चतुर्वर्षाणां सफल-समापनस्य निमित्तम् आयोजकेभ्यः शुभकामनाः अददात्। तेन उक्तं यत् एषा पाकशाला निरन्तरं निर्धनेभ्यः, असहायेभ्यः, श्रमिकेभ्यः तथा आवश्यकतायुक्तेभ्यः जनेभ्यः पौष्टिकं पर्याप्त-कैलोरी-युक्तं भोजनम् उपलब्धं करोति। तेन अस्याः सेवायाः तुलना अन्नपूर्णा-भण्डार: तथा अक्षय-पात्रं इत्येताभ्यां कृता। सः अवदत् यथा अन्नपूर्णायाः भण्डारम् अक्षयपात्रं च कदापि रिक्तं न भवतः, तथैव एषा सेवापि निरन्तरं प्रवर्ततां, अधिकाधिक-जनानां च लाभाय भवतु।

तेन उक्तं यत् समाजः तदैव सुदृढः भवति यदा समर्थजनाः स्वस्य आयस्य समयस्य च किञ्चित् अंशं समाजहिताय समर्पयन्ति। दरिद्रजनानां सेवा एव परमः धर्मः। एतादृशाः प्रयत्नाः सामाजिक-समरसतां सुदृढां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

अस्मिन् अवसरे पूर्वप्रधानमन्त्रिणः भारतरत्न-श्री-अटलबिहारी-वाजपेयी, वीराङ्गना झलकारीबाई, भारतरत्न-डॉ. भीमराव-आम्बेडकर: तथा लोकमाता-अहिल्याबाई-होल्कर: इत्येषां प्रतिमानां विधिवद् अनावरणम् अपि कृतम्।

Hindusthan Samachar / Divya Ranjan