Enter your Email Address to subscribe to our newsletters

लखनऊ, 10 जुलाईमासः (हि.स.)।उत्तरप्रदेशसर्वकारेण गुरुवासरे रात्रौ विलम्बेन २० भारतीयप्रशासनिकसेवाधिकारिणां स्थानान्तरणं कृतम् अस्ति। एतेषु सचिवविशेषसचिवस्तरीयाः अधिकारिणः सम्मिलिताः सन्ति। एतदतिरिक्तं बलिया आजमगढ तथा इटावा जनपदानां मुख्यविकासाधिकारिणः अपि स्थानान्तरिताः सन्ति।
स्थानान्तरणक्रमे सुधा वर्मा राजस्वसचिवपदात् श्रमायुक्तपदे नियुक्ता अस्ति। डा सारिका मोहन चिकित्साशिक्षामहानिदेशक तथा चिकित्साशिक्षासचिवपदाभ्यां निबन्धनमहानिरीक्षकपदे नियुक्ता अस्ति। नेहा शर्मा निबन्धनमहानिरीक्षकपदात् चिकित्साशिक्षामहानिदेशक तथा चिकित्साशिक्षासचिवपदे नियुक्ता अस्ति। अरुण कुमार भूतत्त्वखनिकर्मापरमहानिदेशकपदात् उत्तरप्रदेशराज्याजीविकामिशनस्य मिशननिदेशकपदे नियुक्तः अस्ति।
तथैव जे रीभा इत्यस्यै भूतत्त्वखनिकर्मविशेषसचिवस्य वर्तमानदायित्वेन सह अपरनिदेशकस्य प्रभारः समर्पितः अस्ति। दीपा रंजन राज्याजीविकामिशनस्य मिशननिदेशकपदात् संस्कृतिविभागस्य विशेषसचिवपदे नियुक्ता अस्ति। संजय कुमार प्रथमः संस्कृतिविशेषसचिव तथा धर्मार्थकार्यनिदेशकपदे स्थितः आसीत्। सः संस्कृतिविशेषसचिवस्य प्रभारात् मुक्तः कृतः तथा तस्मै संस्कृतिनिदेशकस्य अतिरिक्तप्रभारः प्रदत्तः अस्ति। विशाल सिंह संस्कृतिविशेषसचिव सूचनानिदेशक तथा संस्कृतिविभागनिदेशकपदेषु कार्यरतः आसीत्। सः संस्कृतिविशेषसचिवस्य तथा संस्कृतिनिदेशकस्य प्रभाराभ्यां मुक्तः कृतः अस्ति।
एवमेव संदीप भागिया गौतमबुद्धनगरस्य राज्यकरापरायुक्त तथा गाजियाबादद्वितीयस्य राज्यकरापरायुक्तपदाभ्यां मध्याञ्चलविद्युत्वितरणनिगमस्य प्रबन्धनिदेशकपदे नियुक्तः अस्ति। परीक्षित खटाना आजमगढस्य मुख्यविकासाधिकारिपदात् गौतमबुद्धनगरस्य राज्यकरापरायुक्तपदे नियुक्तः अस्ति। राकेश कुमार पटेल लखनऊमण्डलस्य अपरायुक्तपदात् आजमगढस्य मुख्यविकासाधिकारिपदे नियुक्तः अस्ति। रेणु तिवारी महिलाकल्याण तथा बालविकासपुष्टाहारविभागस्य विशेषसचिव तथा राज्यमहिलायोगस्य सचिवपदे कार्यरता आसीत्। सा बालविकासपुष्टाहारविभागस्य विशेषसचिवपदात् मुक्ताऽस्ति।
एतदतिरिक्तं जग प्रवेश मथुरा वृन्दावननगरायुक्तपदात् वनपर्यावरणजलवायुप्रवर्तनविभागस्य विशेषसचिवपदे नियुक्तः अस्ति। ओजस्वी राज बलियाजनपदस्य मुख्यविकासाधिकारिपदात् मथुरा वृन्दावननगरायुक्तपदे नियुक्तः अस्ति। आलोक कुमार अपरजनपदाधिकारी वित्तराजस्वपदात् बलियाजनपदस्य मुख्यविकासाधिकारिपदे नियुक्तः अस्ति। अजय कुमार गौतम इटावाजनपदस्य मुख्यविकासाधिकारिपदात् गाजियाबादप्रथमस्य राज्यकरापरायुक्तपदे नियुक्तः अस्ति। संजय कुमार सिंह अपरजनपदाधिकारी प्रशासनपदात् इटावाजनपदस्य मुख्यविकासाधिकारिपदे नियुक्तः अस्ति। प्रतीक्षारतः मनिकंदन ए अपरभूमिव्यवस्थायुक्त राजस्वपरिषद्पदे नियुक्तः अस्ति। डा वंदना वर्मा चीनीउद्योगगन्नाविकासविभागस्य विशेषसचिव तथा राज्यचीनिनिगमस्य संयुक्तप्रबन्धनिदेशकपदे कार्यरता अस्ति। तस्यै सहकारीचीनिमिल्ससङ्घस्य संयुक्तप्रबन्धनिदेशकस्य अतिरिक्तप्रभारः समर्पितः अस्ति।
--------------
Hindusthan Samachar / Dheeraj Maithani