बिहारविधानसभायाः प्रबोधनकार्यक्रमे सहभागितां करिष्यति उत्तरप्रदेशविधानसभाध्यक्षः सतीशमहाना
– विधायकेभ्यः संसदीयपरम्पराणां लोकतान्त्रिकमूल्यानां च सुदृढीकरणस्य सन्देशं दास्यति लखनऊनगरम्, १० जुलाईमासः (हि.स.)। बिहारविधानसभायाः नवनिर्वाचितानां वर्तमानसदस्यानां च कृते गयानगरे स्थिते बिहार-लोकप्रशासन-ग्रामीणविकास-संस्थाने आयोज्यमाने द्विदिवस
उत्तर प्रदेश विधानसभा के  अध्यक्ष  सतीश महाना


– विधायकेभ्यः संसदीयपरम्पराणां लोकतान्त्रिकमूल्यानां च सुदृढीकरणस्य सन्देशं दास्यति

लखनऊनगरम्, १० जुलाईमासः (हि.स.)। बिहारविधानसभायाः नवनिर्वाचितानां वर्तमानसदस्यानां च कृते गयानगरे स्थिते बिहार-लोकप्रशासन-ग्रामीणविकास-संस्थाने आयोज्यमाने द्विदिवसीये ‘प्रबोधनकार्यक्रमे’ उत्तरप्रदेशविधान-सभाया: अध्यक्षः सतीशमहाना अपि सहभागितां करिष्यति। बिहार-विधानसभा-सचिवालयेन, लोकसभा-सचिवालयस्य संसदीय-अनुसन्धान-प्रशिक्षण-संस्थया तथा बिहारसर्वकारस्य बिपार्ड-संस्थया संयुक्ततत्त्वावधाने आयोजितः अयं कार्यक्रमः ११ तथा १२ जुलाई, २०२६ दिनाङ्कयोः सम्पन्नः भविष्यति। कार्यक्रमस्य उद्घाटनं भारतस्य उपराष्ट्रपतिना सी. पी. राधाकृष्णनेन करिष्यते।

अस्मिन् अवसरे लोकसभाध्यक्षः ओमबिरला, राज्यसभायाः उपसभापतिः हरिवंशः, बिहारस्य मुख्यमन्त्री सम्राटचौधरी, बिहारविधानसभाध्यक्षः डॉ. प्रेमकुमारः, बिहारविधानपरिषदः सभापतिः अवधेशनारायणसिंहः इत्येतै: च सह अनेके गणमान्यजनाः उपस्थिताः भविष्यन्ति।

उत्तरप्रदेशविधानसभाध्यक्षः सतीशमहाना कार्यक्रमे विधायकान् सम्बोधयन् संसदीयपरम्पराणां, सदनस्य गरिम्णः, विधायिकाप्रक्रियाणां तथा जनप्रतिनिधीनां दायित्वानां विषये स्वानुभवान् ज्ञापयिष्यति। महाना अवदत् यत् लोकतन्त्रस्य सफलतायै जनप्रतिनिधिभिः संविधानस्य भावनां, संसदीयमर्यादाः तथा सदनस्य कार्यप्रणाली गम्भीरतया अवगन्तव्या। प्रबोधनदृशाः कार्यक्रमाः विधायकेभ्यः न केवलं विधायिकाकार्याणां ज्ञानं प्रददति, अपितु जनापेक्षानुरूपां प्रभाविजनसेवां कर्तुमपि प्रेरयन्ति।

तेन उक्तं यत् विधानसभा केवलं विधाननिर्माणस्य मञ्चः नास्ति, अपितु सा जनतायाः आकाङ्क्षाणाम् अभिव्यक्तेः तथा लोकतान्त्रिकसंवादस्य सुदृढीकरणस्य सर्वोच्चं माध्यमम् अस्ति। सदनस्य गरिमा, अनुशासनम् तथा सकारात्मकी चर्चा इत्यादय: लोकतन्त्रं अधिकं सशक्तं कुर्वन्ति। प्रबोधनकार्यक्रमस्य विभिन्नेषु सत्रेषु विधायकेभ्यः सदनस्य कार्यवाही, प्रश्नकालः, विधायिकाप्रक्रिया, संसदीय-शिष्टाचारः, समितीनां भूमिका तथा जनप्रतिनिधिरूपेण तेषां दायित्वानि इत्यादिषु विषयेषु विशेषज्ञैः प्रशिक्षणं प्रदास्यते।

उल्लेखनीयं यत् उत्तरप्रदेशविधानसभाया: अध्यक्षेन सतीशमहाना-इत्यनेन विधान-सभायाः कार्यप्रणालीं अधिकां आधुनिकीं, पारदर्शिनीं जनोन्मुखीं च कर्तुं कृताः नवाचाराः—ई-विधानव्यवस्था, डिजिटल-सुविधाः तथा सदनस्य कार्यक्षमत्ववर्धनाय कृताः प्रयत्नाः—देशव्यापी प्रशंसाम् अलभन्त। तस्य अनुभवाः अस्मिन् प्रबोधनकार्यक्रमे सहभागिनां विधायकानां कृते अत्यन्तम् उपयोगिनः प्रेरणादायकाश्च भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan