स्वार्थी तत्वेभ्यः सावधानता वर्ततां , प्रत्येकं प्रकरणं प्रशासनस्य परिधौ निवारमणीयम् : मायावती
लखनऊ, 10 जुलाईमासः (हि.स.)।बहुजनसमाजपार्टीति बसपादलस्य राष्ट्रियाध्यक्षा मायावती शुक्रवासरे उक्तवती यत् अस्माभिः तादृशेभ्यः सङ्गठनेभ्यः राजनीतिकदलेभ्यश्च सतर्कैः भवितव्यं, ये स्वार्थसिद्ध्यर्थं जनान् उत्तेजयित्वा मार्गेषु प्रदर्शनाय प्रेरयन्ति। सा
पत्रकारवार्ता करती बसपा प्रमुख मायावती


लखनऊ, 10 जुलाईमासः (हि.स.)।बहुजनसमाजपार्टीति बसपादलस्य राष्ट्रियाध्यक्षा मायावती शुक्रवासरे उक्तवती यत् अस्माभिः तादृशेभ्यः सङ्गठनेभ्यः राजनीतिकदलेभ्यश्च सतर्कैः भवितव्यं, ये स्वार्थसिद्ध्यर्थं जनान् उत्तेजयित्वा मार्गेषु प्रदर्शनाय प्रेरयन्ति। सा स्वसमर्थकान् विधेः सीमायाम् एव स्थित्वा सङ्घर्षं कर्तुम् आहूतवती।

मायावती माल एवेन्यूस्थिते स्वावासे आयोजितायां पत्रकारवार्तायां पुनः उक्तवती यत् देशस्य कोटिशः दलितैः उपेक्षितवर्गीयैश्च स्वमूलाधिकाराणां प्राप्तये स्वसमस्यानां निराकरणाय च केन्द्रस्य राज्यानां च राजनीतिकसत्तायाः कुञ्चिका स्वहस्तेषु ग्रहीतव्या भविष्यति।

मायावती स्वसमर्थकान् सचेतयन्ती उक्तवती यत् ये सङ्गठनानि राजनीतिकदलानि च स्वसङ्कीर्णराजनीतिकस्वार्थसिद्ध्यर्थम् एतेषां वर्गाणां दुःखितान् पीडितांश्च जनान् उत्तेजयित्वा मार्गेषु अवतारयन्ति, कोलाहलं मार्गावरोधं च कारयित्वा उपद्रवं जनयन्ति तथा पश्चात् तेषां प्रमुखाः मकरवत् अश्रूणि पातयितुं घटनास्थलं प्राप्य स्वराजनीतिकलाभं साधयन्ति, तैः पीडितेभ्यः न्यायः न प्राप्स्यते। प्रत्युत वर्तमानपरिस्थितौ एतत् एतेषां वर्गाणां जनानां विपत्तिं क्लेशं च अधिकमेव वर्धयिष्यति।

सा उक्तवती यत् एतादृश्यां परिस्थितौ स्वसमस्यानां समाधानाय बाबा साहेबेन प्रदर्शितः सम्यक् शान्तिपूर्णश्च मार्गः एव अनुसरणीयः। अर्थात् स्वैकतायाः स्वमताधिकारस्य शक्त्या च सत्तायाः प्रधानकुञ्चिका प्राप्तव्या। एष एव असङ्ख्यदुःखानाम् एकमात्रम् औषधम् अस्ति। अस्य कृते बसपादलम् अपि निरन्तरं तत्परं प्रयत्नशीलं च अस्ति। अतः अस्मात् मार्गात् कदापि न विचलितव्यम्।

सा पुनः उक्तवती यत् एतेषां वर्गाणां जनैः तादृशेभ्यः सर्वेभ्यः सङ्गठनेभ्यः राजनीतिकदलेभ्यश्च विशेषतया विधानसभायाः लोकसभायाश्च सामान्यनिर्वाचनानां तथा स्थानीयनिकायादीनां निर्वाचनानां समीपे आगते सति अवश्यं सचेतैः सतर्कैश्च भवितव्यम्।

-----------------------

---------------

Hindusthan Samachar / Dheeraj Maithani