रामभक्तान् प्रति गोलिकां चालयितुं समाजवादीपार्टी क्षमां याचेत : योगी आदित्यनाथः
-बस्तीजनपदाय मुख्यमंत्री योगी आदित्यनाथः 504.34 कोटि रुप्यकाणाम् अददात् उपहारम्, 77 विकास परियोजनाभिःपरिवर्तिष्यते जनपदस्य सूरतम् बस्ती, 10 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे बस्तीजनपदस्य हर्रैया कप्तानगञ्ज च विधानसभा
VS-UP-CM-YOGI-CODEINE


-बस्तीजनपदाय मुख्यमंत्री योगी आदित्यनाथः 504.34 कोटि रुप्यकाणाम् अददात् उपहारम्, 77 विकास परियोजनाभिःपरिवर्तिष्यते जनपदस्य सूरतम्

बस्ती, 10 जुलाईमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे बस्तीजनपदस्य हर्रैया कप्तानगञ्ज च विधानसभाक्षेत्रयोः चतुरधिकपञ्चशतकोटि चतुस्त्रिंशल्लक्षरूप्यकमूल्यानां सप्तसप्ततिविकासपरियोजनानां शिलान्यासं लोकार्पणं च कृतवान्। अस्मिन् अवसरे आयोजिते समारोहे मुख्यमन्त्री समाजवादीपार्टीं काङ्ग्रेसं च सनातनविरोधिनौ निरूपयन् उक्तवान् यत् रामभक्तेषु गोलिकाप्रहारं कारयितुं समाजवादीपार्टी क्षमायाचनां कुर्यात्।

मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे अयोध्यातः हर्रैयां प्राप्तवान्। अत्र सः चतुरधिकपञ्चशतकोटि चतुस्त्रिंशल्लक्षरूप्यकमूल्यानां विकासपरियोजनानां शिलान्यासं लोकार्पणं च कृतवान्। एतासु हर्रैयाविधानसभाक्षेत्रे पञ्चाशीतिकोटि चतुष्पञ्चाशल्लक्षरूप्यकमूल्यानां द्वाविंशतिनूतनपरियोजनानां शिलान्यासः तथा पञ्चसप्ततिकोट्यधिकद्विशतकोटि षट्सप्ततिलक्षरूप्यकमूल्यानां त्रिंशत्परियोजनानां लोकार्पणं कृतम्। कप्तानगञ्जविधानसभाक्षेत्रे तु द्विषष्टिकोटि अष्टलक्षरूप्यकमूल्यानाम् अष्टपरियोजनानां शिलान्यासः तथा अशीतिकोटि षण्णवतिलक्षरूप्यकमूल्यानां पूर्णतां गतानां सप्तदशपरियोजनानां लोकार्पणं कृतम्।

विकासकार्याणां सौगातं प्रदाय मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् एभिः विकासकार्यैः हर्रैया कप्तानगञ्ज च क्षेत्रयोः विकासगतिः तीव्रा भविष्यति यतः द्विसहस्रसप्तदशवर्षात् पूर्वम् एते उभे क्षेत्रे विकासात् उपेक्षिते आस्ताम् तथा किमपि विकासकार्यं न कृतम्। किन्तु अधुना डबल इंजन शासनकाले मूलभूतसुविधानां तीव्रगत्या विकासः भवति। सः स्वशासनस्य प्रत्येकस्मिन् क्षेत्रे उपलब्धीः अपि वर्णितवान्।

समाजवादीपार्टीं काङ्ग्रेसं च विकासविरोधिनौ निरूपयन् मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् एते उभे रामविरोधिनौ संविधानविरोधिनौ च स्तः। एतयोः दलयोः शासनकाले निर्धनाः लुण्ठिताः भवन्ति स्म तथा विकासकार्याणि भ्रष्टाचारस्य बलिं गच्छन्ति स्म। सः उक्तवान् यत् एते अद्य राममन्दिरस्य चर्चां कुर्वन्ति किन्तु उभाभ्यां दलाभ्यां सदैव राममन्दिरस्य सनातनधर्मस्य च विरोधे कार्यं कृतम्। रामभक्तेषु गोलिकाप्रहारं कारितवती समाजवादीपार्टी अधुना क्षमायाचनां कुर्यात्। समाजवादीपार्टी कावडयात्रां पञ्चकोशीपरिक्रमां च अवरोद्धुं क्षमायाचनां कुर्यात्। किन्तु अधुना रामराज्ये न कावडयात्रा अवरुध्यते न च मन्दिरस्य धनं कब्रिस्ताननिर्माणे व्ययीक्रियते।

सः उक्तवान् यत् हर्रैया कप्तानगञ्ज च क्षेत्रयोः विकासकार्यैः सह धार्मिकस्थलानां विकासाय अपि महती धनराशिः स्वीकृता अस्ति तथा शासनं सनातनधर्मे किमपि आघातं न आगन्तुं दास्यति। सः उक्तवान् यत् द्विसहस्रसप्तदशवर्षात् पूर्वं विधिव्यवस्था एतावती दूषिता आसीत् यत् कुलवध्वः कन्याश्च गृहात् बहिः निर्गन्तुं बिभ्यति स्म। व्यापारिणां व्यापारः सुरक्षितः न आसीत् किन्तु अधुना प्रदेशस्य विधिव्यवस्था सुदृढा सुव्यवस्थिता च अस्ति तथा अपराधकारिणः उचितस्थानं प्रापिताः सन्ति।

अस्मिन् कार्यक्रमे प्रदेशस्य कृषिमन्त्री तथा बस्तीजनपदस्य प्रभारीमन्त्री सूर्य प्रताप शाही भाजपाजनपदाध्यक्षः विवेकानन्द मिश्रः विधानपरिषद्सदस्यः सुभाष यदुवंशः गोसेवा आयोगस्य उपाध्यक्षः महेश शुक्लः विधायकः अजय सिंहः विधायकः दूधरामः पूर्वविधायकः दयाराम चौधरी पूर्वविधायकः रवि सोनकरः पूर्वविधायकः सीपी शुक्लः पूर्वजनपदाध्यक्षः यशकान्तः तथा स्थानीयपदाधिकारिणः उपस्थिताः आसन्।

हर्रैयाविधानसभाक्षेत्रे प्रमुखपरियोजनानां शिलान्यासेषु मुख्यमन्त्री कम्पोजिट विद्यालयस्य पीएमश्री निर्माणं मार्गविस्तारीकरणं सुदृढीकरणं च ग्रामीणसम्पर्कमार्गाः पर्यटनविकासः छात्रावासनिर्माणं नगरपञ्चायतहर्रैयायां गोशालायाः अमृतसरोवरस्य च निर्माणं सिञ्चनपरियोजनाश्च समाविष्टाः सन्ति। लोकार्पितासु प्रमुखपरियोजनासु राजकीयपालिटेक्निकहर्रैया राजकीयमहाविद्यालयभवनम् अनेकप्रमुखमार्गाणां निर्माणं विस्तारीकरणं च सिञ्चनकार्याणि जलप्लावनसुरक्षाकार्याणि औद्योगिकप्रशिक्षणसंस्थानं छात्रावासः पर्यटनविकासः स्वास्थ्यसुविधासम्बद्धाश्च परियोजनाः समाविष्टाः सन्ति।

कप्तानगञ्जविधानसभाक्षेत्रे प्रमुखपरियोजनानां शिलान्यासेषु गोटवा ऊञ्जीमार्गस्य ललहवा बाबा राम निहाल दासमार्गस्य पैकोलिया शिवाघाटमार्गस्य च विस्तारीकरणं बाबा भारी नाथ शिवस्थलस्य पर्यटनविकासः ग्रामीणसम्पर्कमार्गाः सिञ्चनपरियोजनाश्च प्रमुखाः सन्ति। अत्र नगरपञ्चायतकप्तानगञ्जस्य कार्यालयभवनस्य वेलकममण्डपस्य विभिन्नग्रामीणसम्पर्कमार्गाणां मार्गविस्तारीकरणकार्याणां पर्यटनविकासपरियोजनानां स्वास्थ्यकेन्द्रनिर्माणकार्याणां सिञ्चनयोजनानां च लोकार्पणं कृतम्।

अयोध्यायां योगी आदित्यनाथेन विकासकार्याणां सौगातः प्रदत्तः

बस्तीजनपदं प्राप्तुं पूर्वं मुख्यमन्त्री योगी आदित्यनाथः अयोध्याजनपदस्य बीकापुरविधानसभाक्षेत्राय विकासकार्याणां सौगातं प्रदत्तवान्। सः अत्र द्वात्रिंशदधिकचतुःशतकोटिरूप्यकमूल्यानां सप्तदशाधिकद्विशतविकासपरियोजनानां लोकार्पणं शिलान्यासं च कृतवान्। अयोध्यायां विकासखण्डसोहावलस्य समीपे आयोजिते अस्मिन् कार्यक्रमे सः विभिन्नयोजनानां लाभार्थिभ्यः धनादेशान् स्वीकृतिपत्राणि च वितरितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani