Enter your Email Address to subscribe to our newsletters

देवरिया, 10 जुलाईमासः (हि.स.)।
उत्तरप्रदेशसाहित्यसभायाः पञ्जीकृतसंस्थायाः देवरियाजनपदैककस्य गठनं कृतम् अस्ति। संस्थायाः प्रदेशनेतृत्वेन निर्गतस्य अधिकृतपत्रस्य अनुसारं साहित्यिकगतिविधीनां गतिप्रदानाय, नूतनरचनाकाराणां कृते मञ्चोपलब्धये तथा जनपदे साहित्यिकसांस्कृतिकवातावरणस्य सुदृढीकरणाय च नूतना जनपदकार्यकारिणी गठिता अस्ति। नवगठितकार्यकारिण्याः कार्यकालः २०२८ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं प्रभावी भविष्यति।
नूतनकार्यकारिण्यां प्रवीण मणि त्रिपाठिने जनपदसंयोजकस्य तथा डॉ. आशुतोष त्रिपाठी इत्यस्मै अध्यक्षस्य दायित्वं समर्पितम् अस्ति। सुश्री भावना द्विवेदी वरिष्ठोपाध्यक्षरूपेण नियुक्ता अस्ति। तथैव अंजलि अरोड़ा खुशबू, प्रणव चंद्र श्रीवास्तव तथा श्रीमती वंदना मिश्रा उपाध्यक्षरूपेण मनोनीताः सन्ति।
कार्यकारिण्यां श्रीमती प्रार्थना राय इत्यस्यै मन्त्रिण्याः सचिवायाश्च दायित्वं प्रदत्तम् अस्ति। अरुणेश मिश्र, रीना मिश्रा तथा शिव मिश्रा सहसचिवरूपेण नियुक्ताः सन्ति। प्रवीण तिवारी बड़ू प्रचारसचिवरूपेण तथा दानिश आलम संगठनसचिवरूपेण नियुक्तौ स्तः। मनोजीत कुशवाहा इत्यस्मै कोषाध्यक्षस्य दायित्वं समर्पितम् अस्ति। एतदतिरिक्तं क्षमा श्रीवास्तव, रंजिता श्रीवास्तव, कविता पांडेय, कीर्ति तिवारी तथा सदाम अंसारी सदस्यरूपेण समाविष्टाः सन्ति।
संस्थया स्वस्य संरक्षकमण्डलमपि गठितम् अस्ति, यस्मिन् प्रो. डॉ. दिवाकर प्रसाद तिवारी, जगदीश उपाध्याय, डॉ. अजय मणि त्रिपाठी, सरोज पाण्डेय तथा अनुप कुमार राय समाविष्टाः सन्ति। संरक्षकमण्डलं संस्थायाः गतिविधीनां मार्गदर्शनं करिष्यति तथा साहित्यिककार्यक्रमान् प्रभाविणः कर्तुं सहयोगं प्रदास्यति। --------
Hindusthan Samachar / Dheeraj Maithani