Enter your Email Address to subscribe to our newsletters

लखनऊ, 10 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशे अतिवृष्ट्या वज्रपातेन च जातां जनहानिं पशुहानिम् आर्थिकहानिं च संज्ञानं गृहीतवान्। सः मृतानां शोकसन्तप्तपरिजनेभ्यः संवेदनां प्रकटितवान्। मुख्यमन्त्री अधिकारिभ्यः साहाय्योद्धारकार्याणि त्वरितरूपेण कर्तुं निर्देशान् दत्तवान्।
उत्तरप्रदेशस्य अधिकांशभागेषु तीव्रवृष्टिः भवति। प्रदेशस्य विभिन्नक्षेत्रेभ्यः जनहानेः, पशुहानेः अन्यविधक्षतेश्च समाचाराः प्राप्यन्ते। मुख्यमन्त्री योगी आदित्यनाथः एतस्य संज्ञानं गृहीत्वा मृतानां शोकसन्तप्तपरिजनेभ्यः संवेदनां प्रकटितवान्।
मुख्यमन्त्री अतिवृष्ट्या वज्रपातेन च जातायाः जनहानेः, पशुहानेः आर्थिकहानेः च आकलनं कृत्वा चतुर्विंशतिहोराभ्यन्तरे क्षतिपूर्तिं प्रदातुं निर्देशं दत्तवान्। सः सर्वेभ्यः वरिष्ठाधिकारिभ्यः प्रभावितक्षेत्रेषु गत्वा पीडितपरिवारेभ्यः सर्वसम्भवं साहाय्यम् उपलब्धं कारयितुं निर्देशान् दत्तवान्। सः उक्तवान् यत् अधिकारिणः प्रभावितपरिवारैः सह संवादं स्थापयित्वा तेभ्यः सर्वसम्भवं साहाय्यम् उपलब्धं कारयेयुः। मुख्यमन्त्री व्रणितानां शीघ्रातिशीघ्रं स्वास्थ्यलाभस्य कामनां कृतवान्।
ऋतुविज्ञानविभागस्य अनुसारम् अद्य ४६ जनपदेषु वर्षासचेतना निर्गता अस्ति। कुशीनगर, महाराजगञ्ज, सिद्धार्थनगर, बलरामपुर, श्रावस्ती, बहराइच, लखीमपुरखीरी, सीतापुर, बिजनौर, अमरोहा, मुरादाबाद, रामपुर, बरेली, पीलीभीत, शाहजहाँपुर, सम्भल, बदायूँ समीपवर्तिषु इत्येषु च क्षेत्रेषु अत्यधिकवृष्टेः नारङ्गवर्णीया सचेतना निर्गता अस्ति।
तथैव आजमगढ़, मऊ, बलिया, देवरिया, गोरखपुर, सन्तकबीरनगर, बस्ती, गोण्डा, हरदोई, फर्रुखाबाद, कन्नौज, कानपुरदेहात, कानपुरनगर, उन्नाव, लखनऊ, बाराबंकी, रायबरेली, अमेठी, सुलतानपुर, अयोध्या, अम्बेडकरनगर, सहारनपुर, शामली, मुजफ्फरनगर, मेरठ, हापुड़, बुलन्दशहर, अलीगढ़, हाथरस, कासगञ्ज, एटा, औरैया तथा समीपवर्तिक्षेत्रेषु पीतवर्णीया सचेतना निर्गता अस्ति।
---------------------
Hindusthan Samachar / Dheeraj Maithani