कार्यस्थले महिलानां सुरक्षा-सम्मानयोः सुनिश्चितिः सर्वेषां सामूहिकं दायित्वम् : विजया-रहाटकर:
– कार्यस्थले महिलानां लैङ्गिक-उत्पीडनम् अधिनियमः, २०१३ इत्यस्य अन्तर्गतं आयोजितायां जागरूकता-कार्यशालायां राष्ट्रिय-महिला-आयोगस्य अध्यक्षा विचारान् अवदत् कन्नौजनगरम्, १० जुलाईमासः (हि.स.)। राष्ट्रिय-महिला-आयोगस्य अध्यक्षा विजया-रहाटकर: शुक्रवासरे
कन्नौज: कार्यस्थल पर महिलाओं की सुरक्षा एवं सम्मान सभी की सामूहिक जिम्मेदारी: विजया


– कार्यस्थले महिलानां लैङ्गिक-उत्पीडनम् अधिनियमः, २०१३ इत्यस्य अन्तर्गतं आयोजितायां जागरूकता-कार्यशालायां राष्ट्रिय-महिला-आयोगस्य अध्यक्षा विचारान् अवदत्

कन्नौजनगरम्, १० जुलाईमासः (हि.स.)। राष्ट्रिय-महिला-आयोगस्य अध्यक्षा विजया-रहाटकर: शुक्रवासरे कन्नौज-जनपदस्य समाहर्तृ-कार्यालयस्थिते गान्धी-सभागारे कार्यस्थले महिलानां लैङ्गिक ii-उत्पीडनम् अधिनियमः, २०१३ इत्यस्य अन्तर्गतं आयोजितां जागरूकता-कार्यशालां सम्बोधितवती। तया उक्तं यत् अद्य भारतस्य दुहितरः प्रत्येकस्मिन् क्षेत्रे उत्कृष्टं कार्यं कुर्वन्ति। यदि राष्ट्रं अधिकं प्रगतिपथं नेतुम् इच्छामः तर्हि महिलानां सहभागिता अनिवार्यतया सुनिश्चेतव्या। तया ग्रामीण-महिलानां प्रोत्साहनाय सर्वेषां सहयोगस्य आवश्यकता प्रतिपादिता। ग्रामीण-असङ्घटित-क्षेत्रेषु कार्यरताभ्यः महिलाभ्यः सुरक्षा, सम्मानं, न्यायश्च प्रदातुं सर्वैः सम्बद्ध-विभागैः संवेदनशीलतया कार्यं करणीयम् इति तया उक्तम्।

तया कार्यस्थले महिलानां सुरक्षितं सम्मानजनकं भयमुक्तं च वातावरणं सुनिश्चेतुं विशेषं बलं दत्तम्। तया उक्तं यत् लैङ्गिक-उत्पीडनात् महिलानां संरक्षणसम्बद्ध-अधिनियमस्य अन्तर्गतं महिलाभ्यः प्राप्तानाम् अधिकाराणां सूचना प्रत्येकं कर्मचारिणे संस्थायै च प्रापणीया। तया उक्तं यत् प्रत्येकं शासकीय-निजी-संस्थाने गठितायाः आन्तरिक-समितेः भूमिका अत्यन्तं महत्त्वपूर्णा वर्तते, अतः तस्याः सक्रियतया प्रभावी-रीत्या च कार्यं करणीयम्। तया निर्देशाः प्रदत्ताः यत् यत्र स्थानीय-समितयः सक्रियाः न सन्ति, ताः पुनर्गठिताः कृत्वा प्रभाविण्यः क्रियन्ताम् तथा व्यापक-स्तरे जागरूकता-कार्यक्रमाः आयोज्यन्ताम्, येन अधिकाधिकाः महिलाः स्वाधिकारेषु जागरूकाः भवेयुः।

राष्ट्रिय-महिला-आयोगस्य अध्यक्षया महिलानां लैङ्गिक-उत्पीडनसम्बद्ध-विषये जागरूकतायाः विषये जनपदस्तरीय-स्थानीय-समितेः सदस्यैः सम्बद्ध-अधिकारिभिश्च सह विस्तृतः विचारविमर्शः कृतः। तया उक्तं यत् अस्य उद्देश्यं महिलानां कृते सुरक्षित-कार्यवातावरणस्य सुनिश्चितिः अस्ति। अयं विधिः सर्वेषु तेषु शासकीय-निजी-कार्यालयेषु, कम्पनीषु, विद्यालयेषु, चिकित्सालयेषु, निर्माणीषु च प्रवर्तते, यत्र दश वा ततः अधिकाः कर्मचारीणः कार्यं कुर्वन्ति।

अनन्तरं समाहर्तृ-कार्यालय-परिसरे राष्ट्रिय-महिला-आयोगस्य अध्यक्षया दृढबीज-वृक्षस्य तथा उत्तरप्रदेश-राज्य-महिला-आयोगस्य अध्यक्षया बबिता-सिंह-चौहान-इत्यनया जम्बू-वृक्षस्य रोपणं कृतम्। स्वस्य एकदिवसीय-प्रवासस्य आरम्भे तया वन-स्टॉप-केन्द्रस्य निरीक्षणं कृतम्, यत्र जनपदाधिकारी आशुतोष-मोहन-अग्निहोत्रिणा पुष्पगुच्छं प्रदाय तस्याः स्वागतं कृतम्। कार्यशालायाः अनन्तरं रहाटकरमहोदया विकास-भवनस्थितं हर्षवर्धन-सभागारम् अगच्छत्, यत्र पूर्वं पञ्जीकृतानां निष्पादितानां च ५५ सूचनानां निष्पादनस्य समीक्षा कृता। जनश्रवणस्य अनन्तरं महिला-आयोगस्य अध्यक्षया सर्किट-हाउस इत्यत्र स्थानीय-जनप्रतिनिधिभिः सह साक्षात्कारं कृत्वा कन्नौजस्य सामाजिक-आर्थिक-लैङ्गिक-असमानता-सम्बद्ध-विषयेषु विस्तृतः विचारविमर्शः कृतः।

राष्ट्रिय-महिला-आयोगस्य अध्यक्षायाः विजया-रहाटकर-इत्यस्याः प्रवासकाले उत्तरप्रदेश-राज्य-महिला-आयोगस्य अध्यक्षा बबिता-सिंह-चौहान, सदस्या पुष्पा-पाण्डे, जनपदाधिकारी आशुतोष-मोहन-अग्निहोत्री, आरक्षक-अधीक्षकः विनोद-कुमारः तथा अन्ये अधिकारिणः निरन्तरं तया सह उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan