पीएम सूर्य घर योजनातो मीरजापुरे सौरक्रांतिः, 7,440गृहे नित्यं निर्मीयते एकलक्षमितो यूनिटतः आधिक्येन विद्युत्
मीरजापुरम्, 10 जुलाईमासः (हि.स.)। प्रधानमन्त्री सूर्यघर निःशुल्कविद्युद्योजनायाः अन्तर्गतं मीरजापुरे सौर ऊर्जायाः विस्तारः निरन्तरं वर्धमानः अस्ति। जनपदस्य सप्तसहस्रचतुःशतचत्वारिंशत् गृहेषु गृहच्छदसौरसंयन्त्राणि स्थापितानि सन्ति येभ्यः प्रतिदिनम्
पीएम सूर्य घर योजना


मीरजापुरम्, 10 जुलाईमासः (हि.स.)।

प्रधानमन्त्री सूर्यघर निःशुल्कविद्युद्योजनायाः अन्तर्गतं मीरजापुरे सौर ऊर्जायाः विस्तारः निरन्तरं वर्धमानः अस्ति। जनपदस्य सप्तसहस्रचतुःशतचत्वारिंशत् गृहेषु गृहच्छदसौरसंयन्त्राणि स्थापितानि सन्ति येभ्यः प्रतिदिनम् एकलक्षाधिकविद्युदेककानाम् उत्पादनं भवति। अनेन सहस्रशः परिवाराणां विद्युद्देयके उल्लेखनीया न्यूनता आगता अस्ति। मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशानुसारं योजनायाः लाभम् अधिकाधिकजनेभ्यः प्रापयितुम् अभियानं सञ्चाल्यते।

यूपीनेडा इत्यस्य परियोजनाप्रभारी संदीप कुमार शुक्रवासरे सूचितवान् यत् योजनायाः अन्तर्गतं सम्प्रति षट्सहस्रचतुःशतचतुर्नवत्यधिकानां लाभार्थिनां खातेषु सहायिकीधनराशिः प्रेषिता अस्ति अवशिष्टेभ्यः लाभार्थिभ्यः अपि शीघ्रं भुगतानं करिष्यते। षड्विंशत्यधिकद्विसहस्रतः सप्तविंशत्यधिकद्विसहस्रपर्यन्तं वित्तवर्षे पञ्चविंशत्यधिकपञ्चशतोत्तरनवसहस्रं नूतनगृहेषु सौरसंयन्त्रस्थापनस्य लक्ष्यं निर्धारितम् अस्ति। अप्रैलमासे त्रिषष्ट्यधिकपञ्चशतं मईमासे अष्टादशाधिकसप्तशतं जूनमासे चत्वारिंशदधिकाष्टशतं तथा जुलाईमासे अद्यावधि सप्तत्यधिकद्विशतं नूतनलाभार्थिनः योजनया सह संयोजिताः सन्ति।

सः सूचितवान् यत् योजनायाः अन्तर्गतं केन्द्रसर्वकारः प्रदेशसर्वकारश्च संयुक्तरूपेण आकर्षकां सहायिकीं प्रददतः। एककिलोवाटक्षमतायुक्ते संयन्त्रे पञ्चचत्वारिंशत्सहस्ररूप्यकाणि द्विकिलोवाटक्षमतायुक्ते संयन्त्रे नवतिसहस्ररूप्यकाणि तथा त्रिकिलोवाटक्षमतायुक्ते संयन्त्रे अधिकतमम् अष्टसहस्राधिकैकलक्षरूप्यकपर्यन्तं सहायिकी प्रदीयते।

परियोजनाप्रभारी उक्तवान् यत् योजनायाः उद्देश्यं गृह्योपभोक्तॄन् ऊर्जाक्षेत्रे आत्मनिर्भरान् कर्तुं विद्युद्व्ययं न्यूनीकर्तुं स्वच्छनवीकरणीय ऊर्जायाः उपयोगं प्रोत्साहयितुं च अस्ति। अनेन पर्यावरणसंरक्षणेन सह हरित ऊर्जायै अपि नूतना गतिः प्राप्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani