विश्वजनसङ्ख्यादिवसस्य निमित्तम् ११ जुलाईमासतः १८ जुलाईमासपर्यन्तं विशेषाभियानं, परिवारनियोजने विशेषं बलम्
मीरजापुरनगरम्, १० जुलाईमासः (हि.स.)। मातृशिश्वोः स्वास्थ्यस्य उन्नयनार्थम् तथा अनियोजितगर्भधारणस्य निवारणाय मीरजापुरजनपदे ११ जुलाईमासतः १८ जुलाईमासपर्यन्तम् विश्वजनसङ्ख्या-दिवस-२०२६ इति विशेषाभियानं सञ्चाल्यते। अस्य अभियानस्य प्रमुख-विषयः गर्भधारणय
मुख्य चिकित्सा अधिकारी मीरजापुर डॉ. केके  मिश्रा।


मीरजापुरनगरम्, १० जुलाईमासः (हि.स.)। मातृशिश्वोः स्वास्थ्यस्य उन्नयनार्थम् तथा अनियोजितगर्भधारणस्य निवारणाय मीरजापुरजनपदे ११ जुलाईमासतः १८ जुलाईमासपर्यन्तम् विश्वजनसङ्ख्या-दिवस-२०२६ इति विशेषाभियानं सञ्चाल्यते। अस्य अभियानस्य प्रमुख-विषयः गर्भधारणयोः मध्ये स्वस्थसमयस्य समुचितविरामस्य च प्रोत्साहनम् अस्ति।

मुख्यचिकित्साधिकारी डा.के.के.मिश्रः अवदत् यत् परिवारनियोजनसेवानां सम्यग्ज्ञानस्य च सर्वेषां समीपं सुलभतां वर्धयितुं निरन्तरप्रयत्नाः क्रियन्ते। तेन उक्तं यत् येषु क्षेत्रेषु आधुनिकानां गर्भनिरोधक-उपकरणानां आवश्यकता सम्यक् न पूर्यते तथा च किशोराणां प्रजननदरः अधिकः अस्ति, तेषु क्षेत्रेषु विशेषरणनीत्याः आधारेण कार्यं विधास्यते।तेन अपि उक्तं यत् अस्मिन् वर्षे अभियानस्य विषयः “मातुः शिशोश्च उत्तमस्वास्थ्याय तथा अनियोजितस्य गर्भधारणस्य निवारणाय गर्भधारणयोः मध्ये स्वस्थसमयस्य समुचितविरामस्य च प्रोत्साहनम्” इति निर्धारितः अस्ति। अभियानस्य घोषवाक्यम् अस्ति— “यदा बालकेषु समुचितम् अन्तरालं भवति, तदा परिवारः स्वस्थः सुखी च भवति।”

अभियानकाले पञ्चायतीराजसंस्थाः, महिला-बालविकासविभागः, नगरीय-निकायाः, स्वसहायतासमूहाः तथा अन्यानि सामुदायिकसङ्घटनानि सक्रिय-रूपेण सहभागं करिष्यन्ति। आशा-कार्यकर्त्र्यः लक्षितदम्पतीन् परिवार-नियोजनस्य विविधोपायानां विषये परामर्शं दास्यन्ति। एतदतिरिक्तम् इण्टरमीडिएट् तथा स्नातकमहाविद्यालयेषु वादविवाद-प्रतियोगिताभिः सह विविधाः जन-जागरूकताकार्यक्रमाः आयोजयिष्यन्ते।

Hindusthan Samachar / Divya Ranjan