Enter your Email Address to subscribe to our newsletters

पटनानगरम्, १० जुलाईमासः (हि.स.)। भारतीय-जनता-पक्षस्य बिहार-प्रदेश-कार्यालयस्थिते: अटल-सभागारे शुक्रवासरे प्रदेशाध्यक्षस्य सञ्जय-सरावगी इत्यस्य अध्यक्षतायां प्रदेश-पदाधिकारिणां सर्वेषां जनपदाध्यक्षानां च सङ्घटनात्मक-सभा आयोजिता।
सभायां अग्रिम-सङ्गठनात्मक-कार्य-क्रमाणाम्, सङ्घटन-विस्तारस्य, कार्य-कर्तृणां सक्रिय-सहभागितायाः तथा सर्वकारस्य सङ्घटनस्य च मध्ये उत्तम-समन्वयस्य विषये विस्तृतः विचारविमर्शः अभवत्।
सभां सम्बोधयन् प्रदेशाध्यक्षः सञ्जय-सरावगी अवदत् यत् भारतीय-जनता-पक्षः कार्यकर्ता-आधारितं सङ्घटनम् अस्ति, यस्य महत्तमा शक्तिः तस्य समर्पिताः अनुशासिताश्च कार्यकर्तारः सन्ति।
तेन उक्तं यत् अग्रिमा: सर्वे सङ्गठनात्मक-कार्यक्रमाः मतदान-केन्द्र-स्तरपर्यन्तं प्रभावी-रीत्या सञ्चालयितुं प्रत्येकं पदाधिकारिणः जनपदाध्यक्षस्य च उत्तरदायित्वम् अस्ति। सर्वे कार्यकर्तारः जनं जनं प्रति सर्वकारस्य उपलब्धयः, सेवा, सुशासनं, विकासस्य सङ्कल्पं च प्रापयन्तु।
प्रदेशाध्यक्षः सञ्जय: सरावगी अवदत् यत् सङ्घटनस्य निरन्तर-सक्रियता कार्यकर्तृणां ऊर्जा च भारतीय-जनता-पक्षस्य सफलतायाः आधारः अस्ति। तेन सर्वान् जनपदाध्यक्षान् आहूतवान् यत् ते अग्रिम-कार्यक्रमाणां विस्तृतां कार्ययोजनां निर्माय समयबद्धम् प्रभावी-क्रियान्वयनं च सुनिश्चितं कुर्वन्तु।
तेन उक्तं यत् सर्वकारस्य सङ्घटनस्य च मध्ये उत्तम-समन्वयेन जनतायाः अपेक्षाः अधिक-प्रभावी-रीत्या पूरयितुं शक्यन्ते।
सभायां पक्षस्य राष्ट्रिय-महासचिवः, बिहार-प्रभारी, राज्यसभा-सांसदः विनोद-तावडे, पूर्व-राज्यसभा-सांसदः बिहार-सह-प्रभारी दीपक-प्रकाशः, सङ्घटन-महामन्त्री भीखूभाई-दलसानिया च सङ्घटनात्मक-विषयेषु मार्गदर्शनम् अकुर्वन्।
सभायां प्रदेश-पदाधिकारिणः सर्वे जनपदाध्यक्षाश्च स्व-स्व-क्षेत्रेषु सम्पन्नानां सङ्घटनात्मक-कार्याणां विवरणं सहभागं कृतवन्तः तथा आगामि-अभियानानां कार्यक्रमाणां च प्रभावी-सञ्चालनाय आवश्यक-सूचनाः अपि अददुः।
सभायां सङ्घटनस्य सुदृढीकरणे, कार्यकर्तृणां सक्रिय-सहभागितायां तथा जनसेवायाः सङ्कल्पस्य अधिक-सुदृढीकरणे विशेषं बलं प्रदत्तम्।
Hindusthan Samachar / Divya Ranjan