हरिद्वारे मादकद्रव्य-मुक्त-अभियानं तीव्रं, विद्यालयेषु जागरूकता-कार्यक्रमाः आयोजयिष्यन्ते
हरिद्वारम्, १० जुलाईमासः (हि.स.)। उत्तराखण्डस्य हरिद्वार-जनपदं मादकद्रव्य-मुक्तं कर्तुमुद्दिश्य जनपद-प्रशासनेन अवैध-मादकद्रव्य-तस्करी-नियन्त्रणाय, मादकद्रव्य-व्यसनमुक्ति-पुनर्वास-कार्यक्रमाणां सुदृढीकरणाय तथा जनजागरूकता-अभियानस्य तीव्री-करणाय निर्ण
बैठक लेते हुए एडीएम


हरिद्वारम्, १० जुलाईमासः (हि.स.)। उत्तराखण्डस्य हरिद्वार-जनपदं मादकद्रव्य-मुक्तं कर्तुमुद्दिश्य जनपद-प्रशासनेन अवैध-मादकद्रव्य-तस्करी-नियन्त्रणाय, मादकद्रव्य-व्यसनमुक्ति-पुनर्वास-कार्यक्रमाणां सुदृढीकरणाय तथा जनजागरूकता-अभियानस्य तीव्री-करणाय निर्णयः कृतः।

जनपदाधिकारी मयूरदीक्षितस्य निर्देशनानुसारम् अपर-जनपदाधिकारी (वित्त-राजस्व) वैभवगुप्तस्य अध्यक्षतायां शुक्रवासरे एनसीओआरडी-समित्याः सभायां एतस्मिन् विषये विविधविभागानां सिद्धतायाः तथा कार्यवाह्याः समीक्षा कृता।

सभायां सूचितं यत् वर्षे २०२६ अधुना यावत् एनडीपीएस-अधिनियमस्य अन्तर्गतं बहुषु प्रकरणेषु कार्यवाही कृता। तस्यां स्मैक्, चरस, गाञ्जा तथा प्रतिबन्धित-औषधीभि: सह विविधानि मादकद्रव्याणि गृहीतानि। मादकद्रव्य-तस्कर्यां अवैध-विक्रये च संलग्नानां जनानां विरुद्धं निरन्तरं कार्यवाही क्रियते।

सभायाम् औषधि-निरीक्षकाय नार्कोटिक्स-साइकोट्रॉपिक-औषधानाम् अवैध-विक्रय-निवारणार्थं नियमित-निरीक्षणं सघन-परीक्षण-अभियानं च सञ्चालयितुं निर्देशाः प्रदत्ताः। सहैव जनपदस्य सर्वेषां मादकद्रव्य-व्यसन-मुक्ति-पुनर्वास-केन्द्राणां नियमित-निरीक्षणं सुनिश्चेतुं निर्देशः अपि दत्तः।

प्रशासनेन निर्णयः कृतः यत् सीबीएसई, आईसीएसई इत्यादिभि: सह सर्वेषु विद्यालयेषु शिक्षण-संस्थासु च विद्यार्थिनः मादकद्रव्य-सेवनस्य दुष्प्रभावेषु जागरूकान् कर्तुं विशेष-कार्यक्रमाः आयोजयिष्यन्ते। एतदतिरिक्तं ‘मादकद्रव्य-मुक्त-भारत-अभियानस्य’ अन्तर्गतं ग्रामपञ्चायतेषु, नगरीय-क्षेत्रेषु, विद्यालयेषु, महाविद्यालयेषु तथा सार्वजनिक-स्थलेषु व्यापक-जनजागरूकता-अभियानं सञ्चालयित्वा जनसहभागिता वर्धयिष्यते।

अस्यां सभायां यातायात-आरक्षक-अधीक्षिका निशायादवः, सदर-क्षेत्राधिकारी संजयशर्मा, औषधि-निरीक्षकः हरीशसिंहः, आबकारी-निरीक्षकः दर्शनसिंहः, जीएसटी-उपायुक्तः दीपककुमारः, निरीक्षकः शान्तिकुमारगङ्गवारः तथा विविधविभागानाम् अन्ये अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan